Srimad Bhagavatam | Canto 3 | Chapter 29 | Verses

Texts 1-2 देवहूतिरुवाच लक्षणं महदादीनां प्रकृते: पुरुषस्य च । स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥ १ ॥ यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते । भक्तियोगस्य मे मार्गं ब्रूहि विस्तरश: प्रभो ॥ २ ॥

0
50

Explanation of Devotional Service by Lord Kapila

Texts 1-2

देवहूतिरुवाच
लक्षणं महदादीनां प्रकृते: पुरुषस्य च ।
स्वरूपं लक्ष्यतेऽमीषां येन तत्पारमार्थिकम् ॥ १ ॥
यथा साङ्ख्येषु कथितं यन्मूलं तत्प्रचक्षते ।
भक्तियोगस्य मे मार्गं ब्रूहि विस्तरश: प्रभो ॥ २ ॥

Text 3

विरागो येन पुरुषो भगवन्सर्वतो भवेत् ।
आचक्ष्व जीवलोकस्य विविधा मम संसृती: ॥ ३ ॥

Text 4

कालस्येश्वररूपस्य परेषां च परस्य ते ।
स्वरूपं बत कुर्वन्ति यद्धेतो: कुशलं जना: ॥ ४ ॥

Text 5

लोकस्य मिथ्याभिमतेरचक्षुष-
श्चिरं प्रसुप्तस्य तमस्यनाश्रये ।
श्रान्तस्य कर्मस्वनुविद्धया धिया
त्वमाविरासी: किल योगभास्कर: ॥ ५ ॥

Text 6

मैत्रेय उवाच
इति मातुर्वच: श्लक्ष्णं प्रतिनन्द्य महामुनि: ।
आबभाषे कुरुश्रेष्ठ प्रीतस्तां करुणार्दित: ॥ ६ ॥

Text 7

श्रीभगवानुवाच
भक्तियोगो बहुविधो मार्गैर्भामिनि भाव्यते ।
स्वभावगुणमार्गेण पुंसां भावो विभिद्यते ॥ ७ ॥

Text 8

अभिसन्धाय यो हिंसां दम्भं मात्सर्यमेव वा ।
संरम्भी भिन्नद‍ृग्भावं मयि कुर्यात्स तामस: ॥ ८ ॥

Text 9

विषयानभिसन्धाय यश ऐश्वर्यमेव वा ।
अर्चादावर्चयेद्यो मां पृथग्भाव: स राजस: ॥ ९ ॥

Text 10

कर्मनिर्हारमुद्दिश्य परस्मिन्वा तदर्पणम् ।
यजेद्यष्टव्यमिति वा पृथग्भाव: स सात्त्विक: ॥ १० ॥

Texts 11-12

मद्गुणश्रुतिमात्रेण मयि सर्वगुहाशये ।
मनोगतिरविच्छिन्ना यथा गङ्गाम्भसोऽम्बुधौ ॥ ११ ॥
लक्षणं भक्तियोगस्य निर्गुणस्य ह्युदाहृतम् ।
अहैतुक्यव्यवहिता या भक्ति: पुरुषोत्तमे ॥ १२ ॥

Text 13

सालोक्यसार्ष्टिसामीप्यसारूप्यैकत्वमप्युत ।
दीयमानं न गृह्णन्ति विना मत्सेवनं जना: ॥ १३ ॥

Text 14

स एव भक्तियोगाख्य आत्यन्तिक उदाहृत: ।
येनातिव्रज्य त्रिगुणं मद्भावायोपपद्यते ॥ १४ ॥

Text 15

निषेवितेनानिमित्तेन स्वधर्मेण महीयसा ।
क्रियायोगेन शस्तेन नातिहिंस्रेण नित्यश: ॥ १५ ॥

Text 16

मद्धिष्ण्यदर्शनस्पर्शपूजास्तुत्यभिवन्दनै: ।
भूतेषु मद्भावनया सत्त्वेनासङ्गमेन च ॥ १६ ॥

Text 17

महतां बहुमानेन दीनानामनुकम्पया ।
मैत्र्या चैवात्मतुल्येषु यमेन नियमेन च ॥ १७ ॥

Text 18

आध्यात्मिकानुश्रवणान्नामसङ्कीर्तनाच्च मे ।
आर्जवेनार्यसङ्गेन निरहङ्‍‌क्रियया तथा ॥ १८ ॥

Text 19

मद्धर्मणो गुणैरेतै: परिसंशुद्ध आशय: ।
पुरुषस्याञ्जसाभ्येति श्रुतमात्रगुणं हि माम् ॥ १९ ॥

Text 20

यथा वातरथो घ्राणमावृङ्क्ते गन्ध आशयात् ।
एवं योगरतं चेत आत्मानमविकारि यत् ॥ २० ॥

Text 21

अहं सर्वेषु भूतेषु भूतात्मावस्थित: सदा ।
तमवज्ञाय मां मर्त्य: कुरुतेऽर्चाविडम्बनम् ॥ २१ ॥

Text 22

यो मां सर्वेषु भूतेषु सन्तमात्मानमीश्वरम् ।
हित्वार्चां भजते मौढ्याद्भस्मन्येव जुहोति स: ॥ २२ ॥

Text 23

द्विषत: परकाये मां मानिनो भिन्नदर्शिन: ।
भूतेषु बद्धवैरस्य न मन: शान्तिमृच्छति ॥ २३ ॥

Text 24

अहमुच्चावचैर्द्रव्यै: क्रिययोत्पन्नयानघे ।
नैव तुष्येऽर्चितोऽर्चायां भूतग्रामावमानिन: ॥ २४ ॥

Text 25

अर्चादावर्चयेत्तावदीश्वरं मां स्वकर्मकृत् ।
यावन्न वेद स्वहृदि सर्वभूतेष्ववस्थितम् ॥ २५ ॥

Text 26

आत्मनश्च परस्यापि य: करोत्यन्तरोदरम् ।
तस्य भिन्नद‍ृशो मृत्युर्विदधे भयमुल्बणम् ॥ २६ ॥

Text 27

अथ मां सर्वभूतेषु भूतात्मानं कृतालयम् ।
अर्हयेद्दानमानाभ्यां मैत्र्याभिन्नेन चक्षुषा ॥ २७ ॥

Text 28

जीवा: श्रेष्ठा ह्यजीवानां तत: प्राणभृत: शुभे ।
त: सचित्ता: प्रवरास्ततश्चेन्द्रियवृत्तय: ॥ २८ ॥

Text 29

तत्रापि स्पर्शवेदिभ्य: प्रवरा रसवेदिन: ।
तेभ्यो गन्धविद: श्रेष्ठास्तत: शब्दविदो वरा: ॥ २९ ॥

Text 30

रूपभेदविदस्तत्र ततश्चोभयतोदत: ।
तेषां बहुपदा: श्रेष्ठाश्चतुष्पादस्ततो द्विपात् ॥ ३० ॥

Text 31

ततो वर्णाश्च चत्वारस्तेषां ब्राह्मण उत्तम: ।
ब्राह्मणेष्वपि वेदज्ञो ह्यर्थज्ञोऽभ्यधिकस्तत: ॥ ३१ ॥

Text 32

अर्थज्ञात्संशयच्छेत्ता तत: श्रेयान्स्वकर्मकृत् ।
मुक्तसङ्गस्ततो भूयानदोग्धा धर्ममात्मन: ॥ ३२ ॥

Text 33

तस्मान्मय्यर्पिताशेषक्रियार्थात्मा निरन्तर: ।
मय्यर्पितात्मन: पुंसो मयि संन्यस्तकर्मण: ।
न पश्यामि परं भूतमकर्तु: समदर्शनात् ॥ ३३ ॥

Text 34

मनसैतानि भूतानि प्रणमेद्बहुमानयन् ।
ईश्वरो जीवकलया प्रविष्टो भगवानिति ॥ ३४ ॥

Text 35

भक्तियोगश्च योगश्च मया मानव्युदीरित: ।
ययोरेकतरेणैव पुरुष: पुरुषं व्रजेत् ॥ ३५ ॥

Text 36

एतद्भगवतो रूपं ब्रह्मण: परमात्मन: ।
परं प्रधानं पुरुषं दैवं कर्मविचेष्टितम् ॥ ३६ ॥

Text 37

रूपभेदास्पदं दिव्यं काल इत्यभिधीयते ।
भूतानां महदादीनां यतो भिन्नद‍ृशां भयम् ॥ ३७ ॥

Text 38

योऽन्त: प्रविश्य भूतानि भूतैरत्त्यखिलाश्रय: ।
स विष्ण्वाख्योऽधियज्ञोऽसौ काल: कलयतां प्रभु: ॥ ३८ ॥

Text 39

न चास्य कश्चिद्दयितो न द्वेष्यो न च बान्धव: ।
आविशत्यप्रमत्तोऽसौ प्रमत्तं जनमन्तकृत् ॥ ३९ ॥

Text 40

यद्भयाद्वाति वातोऽयं सूर्यस्तपति यद्भयात् ।
यद्भयाद्वर्षते देवो भगणो भाति यद्भयात् ॥ ४० ॥

Text 41

यद्वनस्पतयो भीता लताश्चौषधिभि: सह ।
स्वे स्वे कालेऽभिगृह्णन्ति पुष्पाणि च फलानि च ॥ ४१ ॥

Text 42

स्रवन्ति सरितो भीता नोत्सर्पत्युदधिर्यत: ।
अग्निरिन्धे सगिरिभिर्भूर्न मज्जति यद्भयात् ॥ ४२ ॥

Text 43

नभो ददाति श्वसतां पदं यन्नियमादद: ।
लोकं स्वदेहं तनुते महान् सप्तभिरावृतम् ॥ ४३ ॥

Text 44

गुणाभिमानिनो देवा: सर्गादिष्वस्य यद्भयात् ।
वर्तन्तेऽनुयुगं येषां वश एतच्चराचरम् ॥ ४४ ॥

Text 45

सोऽनन्तोऽन्तकर: कालोऽनादिरादिकृदव्यय: ।
जनं जनेन जनयन्मारयन्मृत्युनान्तकम् ॥ ४५ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here