Conversation Between Maitreya and Vidura
Text 1
शौनक उवाच
महीं प्रतिष्ठामध्यस्य सौते स्वायम्भुवो मनु: ।
कान्यन्वतिष्ठद् द्वाराणि मार्गायावरजन्मनाम् ॥ १ ॥
Text 2
क्षत्ता महाभागवत: कृष्णस्यैकान्तिक: सुहृत् ।
यस्तत्याजाग्रजं कृष्णे सापत्यमघवानिति ॥ २ ॥
Text 3
द्वैपायनादनवरो महित्वे तस्य देहज: ।
सर्वात्मना श्रित: कृष्णं तत्परांश्चाप्यनुव्रत: ॥ ३ ॥
Text 4
किमन्वपृच्छन्मैत्रेयं विरजास्तीर्थसेवया ।
उपगम्य कुशावर्त आसीनं तत्त्ववित्तमम् ॥ ४ ॥
Text 5
तयो: संवदतो: सूत प्रवृत्ता ह्यमला: कथा: ।
आपो गाङ्गा इवाघघ्नीर्हरे: पादाम्बुजाश्रया: ॥ ५ ॥
Text 6
ता न: कीर्तय भद्रं ते कीर्तन्योदारकर्मण: ।
रसज्ञ: को नु तृप्येत हरिलीलामृतं पिबन् ॥ ६ ॥
Text 7
एवमुग्रश्रवा: पृष्ट ऋषिभिर्नैमिषायनै: ।
भगवत्यर्पिताध्यात्मस्तानाह श्रूयतामिति ॥ ७ ॥
Text 8
सूत उवाच
हरेर्धृतक्रोडतनो: स्वमायया
निशम्य गोरुद्धरणं रसातलात् ।
लीलां हिरण्याक्षमवज्ञया हतं
सञ्जातहर्षो मुनिमाह भारत: ॥ ८ ॥
Text 9
विदुर उवाच
प्रजापतिपति: सृष्ट्वा प्रजासर्गे प्रजापतीन् ।
किमारभत मे ब्रह्मन् प्रब्रूह्यव्यक्तमार्गवित् ॥ ९ ॥
Text 10
ये मरीच्यादयो विप्रा यस्तु स्वायम्भुवो मनु: ।
ते वै ब्रह्मण आदेशात्कथमेतदभावयन् ॥ १० ॥
Text 11
सद्वितीया: किमसृजन् स्वतन्त्रा उत कर्मसु ।
आहोस्वित्संहता: सर्व इदं स्म समकल्पयन् ॥ ११ ॥
Text 12
मैत्रेय उवाच
दैवेन दुर्वितर्क्येण परेणानिमिषेण च ।
जातक्षोभाद्भगवतो महानासीद् गुणत्रयात् ॥ १२ ॥
Text 13
रज:प्रधानान्महतस्त्रिलिङ्गो दैवचोदितात् ।
जात: ससर्ज भूतादिर्वियदादीनि पञ्चश: ॥ १३ ॥
Text 14
तानि चैकैकश: स्रष्टुमसमर्थानि भौतिकम् ।
संहत्य दैवयोगेन हैममण्डमवासृजन् ॥ १४ ॥
Text 15
सोऽशयिष्टाब्धिसलिले आण्डकोशो निरात्मक: ।
साग्रं वै वर्षसाहस्रमन्ववात्सीत्तमीश्वर: ॥ १५ ॥
Text 16
तस्य नाभेरभूत्पद्मं सहस्रार्कोरुदीधिति ।
सर्वजीवनिकायौको यत्र स्वयमभूत्स्वराट् ॥ १६ ॥
Text 17
सोऽनुविष्टो भगवता य: शेते सलिलाशये ।
लोकसंस्थां यथापूर्वं निर्ममे संस्थया स्वया ॥ १७ ॥
Text 18
ससर्ज च्छाययाविद्यां पञ्चपर्वाणमग्रत: ।
तामिस्रमन्धतामिस्रं तमो मोहो महातम: ॥ १८ ॥
Text 19
विससर्जात्मन: कायं नाभिनन्दंस्तमोमयम् ।
जगृहुर्यक्षरक्षांसि रात्रिं क्षुत्तृट्समुद्भवाम् ॥ १९ ॥
Text 20
क्षुत्तृड्भ्यामुपसृष्टास्ते तं जग्धुमभिदुद्रुवु: ।
मा रक्षतैनं जक्षध्वमित्यूचु: क्षुत्तृडर्दिता: ॥ २० ॥
Text 21
देवस्तानाह संविग्नो मा मां जक्षत रक्षत ।
अहो मे यक्षरक्षांसि प्रजा यूयं बभूविथ ॥ २१ ॥
Text 22
देवता: प्रभया या या दीव्यन् प्रमुखतोऽसृजत् ।
ते अहार्षुर्देवयन्तो विसृष्टां तां प्रभामह: ॥ २२ ॥
Text 23
देवोऽदेवाञ्जघनत: सृजति स्मातिलोलुपान् ।
त
एनं लोलुपतया मैथुनायाभिपेदिरे ॥ २३ ॥
Text 24
ततो हसन् स
भगवानसुरैर्निरपत्रपै: ।
अन्वीयमानस्तरसा क्रुद्धो भीत: परापतत् ॥ २४ ॥
Text 25
स उपव्रज्य वरदं प्रपन्नार्तिहरं हरिम् ।
अनुग्रहाय भक्तानामनुरूपात्मदर्शनम् ॥ २५ ॥
Text 26
पाहि मां परमात्मंस्ते प्रेषणेनासृजं
प्रजा: ।
ता इमा यभितुं पापा उपाक्रामन्ति मां प्रभो ॥ २६ ॥
Text 27
त्वमेक: किल लोकानां क्लिष्टानां
क्लेशनाशन: ।
त्वमेक: क्लेशदस्तेषामनासन्नपदां तव ॥ २७ ॥
Text 28
सोऽवधार्यास्य कार्पण्यं विविक्ताध्यात्मदर्शन: ।
विमुञ्चात्मतनुं घोरामित्युक्तो विमुमोच ह ॥ २८ ॥
Text 29
तां क्वणच्चरणाम्भोजां मदविह्वललोचनाम् ।
काञ्चीकलापविलसद्दुकूलच्छन्नरोधसम् ॥ २९ ॥
Text 30
अन्योन्यश्लेषयोत्तुङ्गनिरन्तरपयोधराम् ।
सुनासां सुद्विजां स्निग्धहासलीलावलोकनाम् ॥ ३० ॥
Text 31
गूहन्तीं व्रीडयात्मानं नीलालकवरूथिनीम् ।
उपलभ्यासुरा धर्म सर्वे सम्मुमुहु: स्त्रियम् ॥ ३१ ॥
Text 32
अहो रूपमहो धैर्यमहो अस्या नवं वय: ।
मध्ये कामयमानानामकामेव विसर्पति ॥ ३२ ॥
Text 33
वितर्कयन्तो बहुधा तां सन्ध्यां
प्रमदाकृतिम् ।
अभिसम्भाव्य विश्रम्भात्पर्यपृच्छन् कुमेधस: ॥ ३३ ॥
Text 34
कासि कस्यासि रम्भोरु को वार्थस्तेऽत्र
भामिनि ।
रूपद्रविणपण्येन दुर्भगान्नो विबाधसे ॥ ३४ ॥
Text 35
या वा काचित्त्वमबले दिष्टया सन्दर्शनं तव ।
उत्सुनोषीक्षमाणानां कन्दुकक्रीडया मन: ॥ ३५ ॥
Text 36
नैकत्र ते जयति शालिनि पादपद्मं
घ्नन्त्या मुहु: करतलेन पतत्पतङ्गम् ।
मध्यं विषीदति बृहत्स्तनभारभीतं
शान्तेव दृष्टिरमला सुशिखासमूह: ॥ ३६ ॥
Text 37
इति सायन्तनीं सन्ध्यामसुरा: प्रमदायतीम् ।
प्रलोभयन्तीं जगृहुर्मत्वा मूढधिय: स्त्रियम् ॥ ३७ ॥
Text 38
प्रहस्य भावगम्भीरं जिघ्रन्त्यात्मानमात्मना ।
कान्त्या ससर्ज भगवान् गन्धर्वाप्सरसां गणान् ॥ ३८ ॥
Text 39
विससर्ज तनुं तां वैज्योत्स्नां कान्तिमतीं प्रियाम् ।
त एव चाददु: प्रीत्या विश्वावसुपुरोगमा: ॥ ३९ ॥
Text 40
सृष्ट्वा भूतपिशाचांश्च भगवानात्मतन्द्रिणा ।
दिग्वाससो मुक्तकेशान् वीक्ष्य चामीलयद् दृशौ ॥ ४० ॥
Text 41
जगृहुस्तद्विसृष्टां तां जृम्भणाख्यां तनुं प्रभो: ।
निद्रामिन्द्रियविक्लेदो यया भूतेषु दृश्यते ।
येनोच्छिष्टान्धर्षयन्ति तमुन्मादं प्रचक्षते ॥ ४१ ॥
Text 42
ऊर्जस्वन्तं मन्यमान आत्मानं भगवानज: ।
साध्यान् गणान् पितृगणान् परोक्षेणासृजत्प्रभु: ॥ ४२ ॥
Text 43
त आत्मसर्गं तं कायं पितर: प्रतिपेदिरे ।
साध्येभ्यश्च पितृभ्यश्च कवयो यद्वितन्वते ॥ ४३ ॥
Text 44
सिद्धान् विद्याधरांश्चैव तिरोधानेन सोऽसृजत् ।
तेभ्योऽददात्तमात्मानमन्तर्धानाख्यमद्भुतम् ॥ ४४ ॥
Text 45
स किन्नरान किम्पुरुषान् प्रत्यात्म्येनासृजत्प्रभु: ।
मानयन्नात्मनात्मानमात्माभासं विलोकयन् ॥ ४५ ॥
Text 46
ते तु तज्जगृहू रूपं त्यक्तं यत्परमेष्ठिना ।
मिथुनीभूय गायन्तस्तमेवोषसि कर्मभि: ॥ ४६ ॥
Text 47
देहेन वै भोगवता शयानो बहुचिन्तया ।
सर्गेऽनुपचिते क्रोधादुत्ससर्ज ह तद्वपु: ॥ ४७ ॥
Text 48
येऽहीयन्तामुत: केशा अहयस्तेऽङ्ग जज्ञिरे ।
सर्पा: प्रसर्पत: क्रूरा नागा भोगोरुकन्धरा: ॥ ४८ ॥
Text 49
स आत्मान् मन्यमान: कृतकृत्यमिवात्मभू: ।
तदा मनून् ससर्जान्ते मनसा लोकभावनान् ॥ ४९ ॥
Text 50
तेभ्य: सोऽसृजत्स्वीयं पुरं पुरुषमात्मवान् ।
तान् दृष्ट्वा ये पुरा सृष्टा: प्रशशंसु: प्रजापतिम् ॥ ५० ॥
Text 51
अहो एतज्जगत्स्रष्ट: सुकृतं बत ते कृतम् ।
प्रतिष्ठिता: क्रिया यस्मिन् साकमन्नमदामहे ॥ ५१ ॥
Text 52
तपसा विद्यया युक्तो योगेन सुसमाधिना ।
ऋषीनृषिर्हृषीकेश: ससर्जाभिमता: प्रजा: ॥ ५२ ॥
Text 53
तेभ्यश्चैकैकश: स्वस्य देहस्यांशमदादज: ।
यत्तत्समाधियोगर्द्धितपोविद्याविरक्तिमत् ॥ ५३ ॥






