Remembrance of Lord Kṛṣṇa
Text 1
श्री शुक उवाच
इति भागवत: पृष्ट: क्षत्त्रा वार्तां प्रियाश्रयाम् ।
प्रतिवक्तुं न चोत्सेह औत्कण्ठ्यात्स्मारितेश्वर: ॥ १ ॥
Text 2
य: पञ्चहायनो मात्रा प्रातराशाय याचित: ।
तन्नैच्छद्रचयन् यस्य सपर्यां बाललीलया ॥ २ ॥
Text 3
स कथं सेवया तस्य कालेन जरसं गत: ।
पृष्टो वार्तां प्रतिब्रूयाद्भर्तु: पादावनुस्मरन् ॥ ३ ॥
Text 4
स मुहूर्तमभूत्तूष्णीं कृष्णाङ्घ्रि सुधया भृशम् ।
तीव्रेण भक्तियोगेन निमग्न: साधु निर्वृत: ॥ ४ ॥
Text 5
पुलकोद्भिन्नसर्वाङ्गो मुञ्चन्मीलद्दृशा शुच: ।
पूर्णार्थो लक्षितस्तेन स्नेहप्रसरसंप्लुत: ॥ ५ ॥
Text 6
शनकैर्भगवल्लोकान्नृलोकं पुनरागत: ।
विमृज्य नेत्रे विदुरं प्रीत्याहोद्धव उत्स्मयन् ॥ ६ ॥
Text 7
उद्धव उवाच
कृष्णद्युमणिनिम्लोचे गीर्णेष्वजगरेण ह ।
किं
नु न: कुशलं ब्रूयां गतश्रीषु गृहेष्वहम् ॥ ७ ॥
Text 8
दुर्भगो बत लोकोऽयं यदवो नितरामपि ।
ये संवसन्तो न विदुर्हरिं मीना इवोडुपम् ॥ ८ ॥
Text 9
इङ्गितज्ञा: पुरुप्रौढा एकारामाश्च सात्वता: ।
सात्वतामृषभं सर्वे भूतावासममंसत ॥ ९ ॥
Text 10
देवस्य मायया स्पृष्टा ये चान्यदसदाश्रिता: ।
भ्राम्यते धीर्न तद्वाक्यैरात्मन्युप्तात्मनो हरौ ॥ १० ॥
Text 11
प्रदर्श्यातप्ततपसामवितृप्तदृशां नृणाम् ।
आदायान्तरधाद्यस्तु स्वबिम्बं लोकलोचनम् ॥ ११ ॥
Text 12
यन्मर्त्यलीलौपयिकं स्वयोग-
मायाबलं दर्शयता गृहीतम् ।
विस्मापनं स्वस्य च सौभगर्द्धे:
परं पदं भूषणभूषणाङ्गम् ॥ १२ ॥
Text 13
यद्धर्मसूनोर्बत राजसूये
निरीक्ष्य दृक्स्वस्त्ययनं त्रिलोक: ।
कार्त्स्न्येन चाद्येह गतं विधातु-
रर्वाक्सृतौ कौशलमित्यमन्यत ॥ १३ ॥
Text 14
यस्यानुरागप्लुतहासरास-
लीलावलोकप्रतिलब्धमाना: ।
व्रजस्त्रियो दृग्भिरनुप्रवृत्त-
धियोऽवतस्थु: किल कृत्यशेषा: ॥ १४ ॥
Text 15
स्वशान्तरूपेष्वितरै: स्वरूपै-
रभ्यर्द्यमानेष्वनुकम्पितात्मा ।
परावरेशो महदंशयुक्तो
ह्यजोऽपि जातो भगवान् यथाग्नि: ॥ १५ ॥
Text 16
मां खेदयत्येतदजस्य जन्म-
विडम्बनं यद्वसुदेवगेहे ।
व्रजे च वासोऽरिभयादिव स्वयं
पुराद् व्यवात्सीद्यदनन्तवीर्य: ॥ १६ ॥
Text 17
दुनोति चेत: स्मरतो ममैतद्
यदाह पादावभिवन्द्य पित्रो: ।
ताताम्ब कंसादुरुशङ्कितानां
प्रसीदतं नोऽकृतनिष्कृतीनाम् ॥ १७ ॥
Text 18
को वा अमुष्याङ्घ्रि सरोजरेणुं
विस्मर्तुमीशीत पुमान् विजिघ्रन् ।
यो विस्फुरद्भ्रूविटपेन भूमे-
र्भारं कृतान्तेन तिरश्चकार ॥ १८ ॥
Text 19
दृष्टा भवद्भिर्ननु राजसूये
चैद्यस्य कृष्णं द्विषतोऽपि सिद्धि: ।
यां योगिन: संस्पृहयन्ति सम्यग्
योगेन कस्तद्विरहं सहेत ॥ १९ ॥
Text 20
तथैव चान्ये नरलोकवीरा
य आहवे कृष्णमुखारविन्दम् ।
नेत्रै: पिबन्तो नयनाभिरामं
पार्थास्त्रपूत: पदमापुरस्य ॥ २० ॥
Text 21
स्वयं त्वसाम्यातिशयस्त्र्यधीश:
स्वाराज्यलक्ष्म्याप्तसमस्तकाम: ।
बलिं हरद्भिश्चिरलोकपालै:
किरीटकोट्येडितपादपीठ: ॥ २१ ॥
Text 22
तत्तस्य कैङ्कर्यमलं भृतान्नो
विग्लापयत्यङ्ग यदुग्रसेनम् ।
तिष्ठन्निषण्णं परमेष्ठिधिष्ण्ये
न्यबोधयद्देव निधारयेति ॥ २२ ॥
Text 23
अहो बकी यं स्तनकालकूटं
जिघांसयापाययदप्यसाध्वी ।
लेभे गतिं धात्र्युचितां ततोऽन्यं
कं वा दयालुं शरणं व्रजेम ॥ २३ ॥
Text 24
मन्येऽसुरान् भागवतांस्त्र्यधीशे
संरम्भमार्गाभिनिविष्टचित्तान् ।
ये संयुगेऽचक्षत तार्क्ष्यपुत्र-
मंसे सुनाभायुधमापतन्तम् ॥ २४ ॥
Text 25
वसुदेवस्य देवक्यां जातो भोजेन्द्रबन्धने ।
चिकीर्षुर्भगवानस्या: शमजेनाभियाचित: ॥ २५ ॥
Text 26
ततो नन्दव्रजमित: पित्रा कंसाद्विबिभ्यता ।
एकादश समास्तत्र गूढार्चि: सबलोऽवसत् ॥ २६ ॥
Text 27
परीतो वत्सपैर्वत्सांश्चारयन् व्यहरद्विभु: ।
यमुनोपवने कूजद्द्विजसंकुलिताङ्घ्रिपे ॥ २७ ॥
Text 28
कौमारीं दर्शयंश्चेष्टां प्रेक्षणीयां व्रजौकसाम् ।
रुदन्निव हसन्मुग्धबालसिंहावलोकन: ॥ २८ ॥
Text 29
स एव गोधनं लक्ष्म्या निकेतं सितगोवृषम् ।
चारयन्ननुगान् गोपान् रणद्वेणुररीरमत् ॥ २९ ॥
Text 30
प्रयुक्तान् भोजराजेन मायिन: कामरूपिण: ।
लीलया व्यनुदत्तांस्तान् बाल: क्रीडनकानिव ॥ ३० ॥
Text 31
विपन्नान् विषपानेन निगृह्य भुजगाधिपम् ।
उत्थाप्यापाययद्गावस्तत्तोयं प्रकृतिस्थितम् ॥ ३१ ॥
Text 32
अयाजयद्गोसवेन गोपराजं द्विजोत्तमै: ।
वित्तस्य चोरुभारस्य चिकीर्षन् सद्वययं विभु: ॥ ३२ ॥
Text 33
वर्षतीन्द्रे व्रज: कोपाद्भग्नमानेऽतिविह्वल: ।
गोत्रलीलातपत्रेण त्रातो भद्रानुगृह्णता ॥ ३३ ॥
Text 34
शरच्छशिकरैर्मृष्टं मानयन् रजनीमुखम् ।
गायन् कलपदं रेमे स्त्रीणां मण्डलमण्डन: ॥ ३४ ॥






