Srimad Bhagavatam | Canto 3 | Chapter 1 | Verses

Text 1 श्रीशुक उवाच एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल । क्षत्‍त्रा वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥

0
47

Questions by Vidura

Text 1

श्रीशुक उवाच
एवमेतत्पुरा पृष्टो मैत्रेयो भगवान् किल ।
क्षत्‍त्रा
वनं प्रविष्टेन त्यक्त्वा स्वगृहमृद्धिमत् ॥ १ ॥

Text 2

यद्वा अयं मन्त्रकृद्वो भगवानखिलेश्वर: ।
पौरवेन्द्रगृहं
हित्वा प्रविवेशात्मसात्कृतम् ॥ २ ॥

Text 3

राजोवाच
कुत्र क्षत्तुर्भगवता मैत्रेयेणास सङ्गम: ।
कदा
वा सह संवाद एतद्वर्णय न: प्रभो ॥ ३ ॥

Text 4

न ह्यल्पार्थोदयस्तस्य विदुरस्यामलात्मन: ।
तस्मिन् वरीयसि प्रश्न: साधुवादोपबृंहित: ॥ ४ ॥

Text 5

सूत उवाच
स एवमृषिवर्योऽयं पृष्टो राज्ञा परीक्षिता ।
प्रत्याह तं सुबहुवित्प्रीतात्मा श्रूयतामिति ॥ ५ ॥

Text 6

श्रीशुक उवाच
यदा तु राजा स्वसुतानसाधून्
पुष्णन्नधर्मेण विनष्टद‍ृष्टि: ।
भ्रातुर्यविष्ठस्य सुतान् विबन्धून्
प्रवेश्य लाक्षाभवने ददाह ॥ ६ ॥

Text 7

यदा सभायां कुरुदेवदेव्या:
केशाभिमर्शं सुतकर्म गर्ह्यम् ।
न वारयामास नृप: स्‍नुषाया:
स्वास्रैर्हरन्त्या: कुचकुङ्कुमानि ॥ ७ ॥

Text 8

द्यूते त्वधर्मेण जितस्य साधो:
सत्यावलम्बस्य वनं गतस्य ।
न याचतोऽदात्समयेन दायं
तमोजुषाणो यदजातशत्रो: ॥ ८ ॥

Text 9

यदा च पार्थप्रहित: सभायां
जगद्गुरुर्यानि जगाद कृष्ण: ।
न तानि पुंसाममृतायनानि
राजोरु मेने क्षतपुण्यलेश: ॥ ९ ॥

Text 10

यदोपहूतो भवनं प्रविष्टो
मन्त्राय पृष्ट: किल पूर्वजेन ।
अथाह तन्मन्त्रद‍ृशां वरीयान्
यन्मन्त्रिणो वैदुरिकं वदन्ति ॥ १० ॥

Text 11

अजातशत्रो: प्रतियच्छ दायं
तितिक्षतो दुर्विषहं तवाग: ।
सहानुजो यत्र वृकोदराहि:
श्वसन् रुषा यत्त्वमलं बिभेषि ॥ ११ ॥

Text 12

पार्थांस्तु देवो भगवान्मुकुन्दो
गृहीतवान् सक्षितिदेवदेव: ।
आस्ते स्वपुर्यां यदुदेवदेवो
विनिर्जिताशेषनृदेवदेव: ॥ १२ ॥

Text 13

स एष दोष: पुरुषद्विडास्ते
गृहान् प्रविष्टो यमपत्यमत्या ।
पुष्णासि कृष्णाद्विमुखो गतश्री-
स्त्यजाश्वशैवं कुलकौशलाय ॥ १३ ॥

Text 14

इत्यूचिवांस्तत्र सुयोधनेन
प्रवृद्धकोपस्फुरिताधरेण ।
असत्कृत: सत्स्पृहणीयशील:
क्षत्ता सकर्णानुजसौबलेन ॥ १४ ॥

Text 15

क एनमत्रोपजुहाव जिह्मं
दास्या: सुतं यद्बलिनैव पुष्ट: ।
तस्मिन् प्रतीप: परकृत्य आस्ते
निर्वास्यतामाशु पुराच्छ्‌वसान: ॥ १५ ॥

Text 16

स्वयं धनुर्द्वारि निधाय मायां
र्भ्रातु: पुरो मर्मसु ताडितोऽपि ।
स इत्थमत्युल्बणकर्णबाणै-
र्गतव्यथोऽयादुरु मानयान: ॥ १६ ॥

Text 17

स निर्गत: कौरवपुण्यलब्धो
गजाह्वयात्तीर्थपद: पदानि ।
अन्वाक्रमत्पुण्यचिकीर्षयोर्व्यां
अधिष्ठितो यानि सहस्रमूर्ति: ॥ १७ ॥

Text 18

पुरेषु पुण्योपवनाद्रिकुञ्जे-
ष्वपङ्कतोयेषु सरित्सर:सु ।
अनन्तलिङ्गै: समलङ्कृतेषु
चचार तीर्थायतनेष्वनन्य: ॥ १८ ॥

Text 19

गां पर्यटन्मेध्यविविक्तवृत्ति:
सदाप्लुतोऽध:शयनोऽवधूत: ।
अलक्षित: स्वैरवधूतवेषो
व्रतानि चेरे हरितोषणानि ॥ १९ ॥

Text 20

इत्थं व्रजन् भारतमेव वर्षं
कालेन यावद्‍गतवान् प्रभासम् ।
तावच्छशास क्षितिमेकचक्रा-
मेकातपत्रामजितेन पार्थ: ॥ २० ॥

Text 21

तत्राथ शुश्राव सुहृद्विनष्टिं
वनं यथा वेणुजवह्निसंश्रयम् ।
संस्पर्धया दग्धमथानुशोचन्
सरस्वतीं प्रत्यगियाय तूष्णीम् ॥ २१ ॥

Text 22

तस्यां त्रितस्योशनसो मनोश्च
पृथोरथाग्नेरसितस्य वायो: ।
तीर्थं सुदासस्य गवां गुहस्य
यच्छ्राद्धदेवस्य स आसिषेवे ॥ २२ ॥

Text 23

अन्यानि चेह द्विजदेवदेवै:
कृतानि नानायतनानि विष्णो: ।
प्रत्यङ्गमुख्याङ्कितमन्दिराणि
यद्दर्शनात्कृष्णमनुस्मरन्ति ॥ २३ ॥

Text 24

ततस्त्वतिव्रज्य सुराष्ट्रमृद्धं
सौवीरमत्स्यान् कुरुजाङ्गलांश्च ।
कालेन तावद्यमुनामुपेत्य
तत्रोद्धवं भागवतं ददर्श ॥ २४ ॥

Text 25

स वासुदेवानुचरं प्रशान्तं
बृहस्पते: प्राक् तनयं प्रतीतम् ।
आलिङ्ग्‍य गाढं प्रणयेन भद्रं
स्वानामपृच्छद्भगवत्प्रजानाम् ॥ २५ ॥

Text 26

कच्चित्पुराणौ पुरुषौ स्वनाभ्य-
पाद्मानुवृत्त्येह किलावतीर्णौ ।
आसात उर्व्या: कुशलं विधाय
कृतक्षणौ कुशलं शूरगेहे ॥ २६ ॥

Text 27

कच्चित्कुरूणां परम: सुहृन्नो
भाम: स आस्ते सुखमङ्ग शौरि: ।
यो वै स्वसृणां पितृवद्ददाति
वरान् वदान्यो वरतर्पणेन ॥ २७ ॥

Text 28

कच्चिद्वरूथाधिपतिर्यदूनां
प्रद्युम्न आस्ते सुखमङ्ग वीर: ।
यं रुक्‍मिणी भगवतोऽभिलेभे
आराध्य विप्रान् स्मरमादिसर्गे ॥ २८ ॥

Text 29

कच्चित्सुखं सात्वतवृष्णिभोज-
दाशार्हकाणामधिप: स आस्ते ।
यमभ्यषिञ्चच्छतपत्रनेत्रो
नृपासनाशां परिहृत्य दूरात् ॥ २९ ॥

Text 30

कच्चिद्धरे: सौम्य सुत: सद‍ृक्ष
आस्तेऽग्रणी रथिनां साधु साम्ब: ।
असूत यं जाम्बवती व्रताढ्या
देवं गुहं योऽम्बिकया धृतोऽग्रे ॥ ३० ॥

Text 31

क्षेमं स कच्चिद्युयुधान आस्ते
य: फाल्गुनाल्लब्धधनूरहस्य: ।
लेभेऽञ्जसाधोक्षजसेवयैव
गतिं तदीयां यतिभिर्दुरापाम् ॥ ३१ ॥

Text 32

कच्चिद् बुध: स्वस्त्यनमीव आस्ते
श्वफल्कपुत्रो भगवत्प्रपन्न: ।
य: कृष्णपादाङ्कितमार्गपांसु-
ष्वचेष्टत प्रेमविभिन्नधैर्य: ॥ ३२ ॥

Text 33

कच्चिच्छिवं देवकभोजपुत्र्या
विष्णुप्रजाया इव देवमातु: ।
या वै स्वगर्भेण दधार देवं
त्रयी यथा यज्ञवितानमर्थम् ॥ ३३ ॥

Text 34

अपिस्विदास्ते भगवान् सुखं वो
य: सात्वतां कामदुघोऽनिरुद्ध: ।
यमामनन्ति स्म हि शब्दयोनिं
मनोमयं सत्त्वतुरीयतत्त्वम् ॥ ३४ ॥

Text 35

अपिस्विदन्ये च निजात्मदैव-
मनन्यवृत्त्या समनुव्रता ये ।
हृदीकसत्यात्मजचारुदेष्ण-
गदादय: स्वस्ति चरन्ति सौम्य ॥ ३५ ॥

Text 36

अपि स्वदोर्भ्यां विजयाच्युताभ्यां
धर्मेण धर्म: परिपाति सेतुम् ।
दुर्योधनोऽतप्यत यत्सभायां
साम्राज्यलक्ष्म्या विजयानुवृत्त्या ॥ ३६ ॥

Text 37

किं वा कृताघेष्वघमत्यमर्षी
भीमोऽहिवद्दीर्घतमं व्यमुञ्चत् ।
यस्याङ्‌घ्रि पातं रणभूर्न सेहे
मार्गं गदायाश्चरतो विचित्रम् ॥ ३७ ॥

Text 38

कच्चिद्यशोधा रथयूथपानां
गाण्डीवधन्वोपरतारिरास्ते ।
अलक्षितो यच्छरकूटगूढो
मायाकिरातो गिरिशस्तुतोष ॥ ३८ ॥

Text 39

यमावुतस्वित्तनयौ पृथाया:
पार्थैर्वृतौ पक्ष्मभिरक्षिणीव ।
रेमात उद्दाय मृधे स्वरिक्थं
परात्सुपर्णाविव वज्रिवक्त्रात् ॥ ३९ ॥

Text 40

अहो पृथापि ध्रियतेऽर्भकार्थे
राजर्षिवर्येण विनापि तेन ।
यस्त्वेकवीरोऽधिरथो विजिग्ये
धनुर्द्वितीय: ककुभश्चतस्र: ॥ ४० ॥

Text 41

सौम्यानुशोचे तमध:पतन्तं
भ्रात्रे परेताय विदुद्रुहे य: ।
निर्यापितो येन सुहृत्स्वपुर्या
अहं स्वपुत्रान् समनुव्रतेन ॥ ४१ ॥

Text 42

सोऽहं हरेर्मर्त्यविडम्बनेन
द‍ृशो नृणां चालयतो विधातु: ।
नान्योपलक्ष्य: पदवीं प्रसादा-
च्चरामि पश्यन् गतविस्मयोऽत्र ॥ ४२ ॥

Text 43

नूनं नृपाणां त्रिमदोत्पथानां
महीं मुहुश्चालयतां चमूभि: ।
वधात्प्रपन्नार्तिजिहीर्षयेशो-
ऽप्युपैक्षताघं भगवान् कुरूणाम् ॥ ४३ ॥

Text 44

अजस्य जन्मोत्पथनाशनाय
कर्माण्यकर्तुर्ग्रहणाय पुंसाम् ।
नन्वन्यथा कोऽर्हति देहयोगं
परो गुणानामुत कर्मतन्त्रम् ॥ ४४ ॥

Text 45

तस्य प्रपन्नाखिललोकपाना-
मवस्थितानामनुशासने स्वे ।
अर्थाय जातस्य यदुष्वजस्य
वार्तां सखे कीर्तय तीर्थकीर्ते: ॥ ४५ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here