Scheduled Incarnations with Specific Functions
Text 1
ब्रह्मोवाच
यत्रोद्यत: क्षितितलोद्धरणाय बिभ्रत्
क्रौडीं तनुं सकलयज्ञमयीमनन्त: ।
अन्तर्महार्णव उपागतमादिदैत्यं
तं दंष्ट्रयाद्रिमिव वज्रधरो ददार ॥ १ ॥
Text 2
जातो रुचेरजनयत् सुयमान् सुयज्ञ
आकूतिसूनुरमरानथ दक्षिणायाम् ।
लोकत्रयस्य महतीमहरद् यदार्तिं
स्वायम्भुवेन मनुना हरिरित्यनूक्त: ॥ २ ॥
Text 3
जज्ञे च कर्दमगृहे द्विज देवहूत्यां
स्त्रीभि: समं नवभिरात्मगतिं स्वमात्रे ।
ऊचे ययात्मशमलं गुणसङ्गपङ्क-
मस्मिन् विधूय कपिलस्य गतिं प्रपेदे ॥ ३ ॥
Text 4
अत्रेरपत्यमभिकाङ्क्षत आह तुष्टो
दत्तो मयाहमिति यद् भगवान् स दत्त: ।
यत्पादपङ्कजपरागपवित्रदेहा
योगर्द्धिमापुरुभयीं यदुहैहयाद्या: ॥ ४ ॥
Text 5
तप्तं तपो विविधलोकसिसृक्षया मे
आदौ सनात् स्वतपस: स चतु:सनोऽभूत् ।
प्राक्कल्पसम्प्लवविनष्टमिहात्मतत्त्वं
सम्यग् जगाद मुनयो यदचक्षतात्मन् ॥ ५ ॥
Text 6
धर्मस्य दक्षदुहितर्यजनिष्ट मूर्त्यां
नारायणो नर इति स्वतप:प्रभाव: ।
दृष्ट्वात्मनो भगवतो नियमावलोपं
देव्यस्त्वनङ्गपृतना घटितुं न शेकु: ॥ ६ ॥
Text 7
कामं दहन्ति कृतिनो ननु रोषदृष्टया
रोषं दहन्तमुत ते न दहन्त्यसह्यम् ।
सोऽयं यदन्तरमलं प्रविशन् बिभेति
काम: कथं नु पुनरस्य मन: श्रयेत ॥ ७ ॥
Text 8
विद्ध: सपत्न्युदितपत्रिभिरन्ति राज्ञो
बालोऽपि सन्नुपगतस्तपसे वनानि ।
तस्मा अदाद् ध्रुवगतिं गृणते प्रसन्नो
दिव्या: स्तुवन्ति मुनयो यदुपर्यधस्तात् ॥ ८ ॥
Text 9
यद्वेनमुत्पथगतं द्विजवाक्यवज्र-
निष्प्लुष्टपौरुषभगं निरये पतन्तम् ।
त्रात्वार्थितो जगति पुत्रपदं च लेभे
दुग्धा वसूनि वसुधा सकलानि येन ॥ ९ ॥
Text 10
नाभेरसावृषभ आस सुदेविसूनु-
र्यो वै चचार समदृग् जडयोगचर्याम् ।
यत्पारमहंस्यमृषय: पदमामनन्ति
स्वस्थ: प्रशान्तकरण: परिमुक्तसङ्ग: ॥ १० ॥
Text 11
सत्रे ममास भगवान् हयशीरषाथो
साक्षात् स यज्ञपुरुषस्तपनीयवर्ण: ।
छन्दोमयो मखमयोऽखिलदेवतात्मा
वाचो बभूवुरुशती: श्वसतोऽस्य नस्त: ॥ ११ ॥
Text 12
मत्स्यो युगान्तसमये मनुनोपलब्ध:
क्षोणीमयो निखिलजीवनिकायकेत: ।
विस्रंसितानुरुभये सलिले मुखान्मे
आदाय तत्र विजहार ह वेदमार्गान् ॥ १२ ॥
Text 13
क्षीरोदधावमरदानवयूथपाना-
मुन्मथ्नताममृतलब्धय आदिदेव: ।
पृष्ठेन कच्छपवपुर्विदधार गोत्रं
निद्राक्षणोऽद्रिपरिवर्तकषाणकण्डू: ॥ १३ ॥
Text 14
त्रैपिष्टपोरुभयहा स नृसिंहरूपं
कृत्वा भ्रमद्भ्रुकुटिदंष्ट्रकरालवक्त्रम् ।
दैत्येन्द्रमाशु गदयाभिपतन्तमारा-
दूरौ निपात्य विददार नखै: स्फुरन्तम् ॥ १४ ॥
Text 15
अन्त:सरस्युरुबलेन पदे गृहीतो
ग्राहेण यूथपतिरम्बुजहस्त आर्त: ।
आहेदमादिपुरुषाखिललोकनाथ
तीर्थश्रव: श्रवणमङ्गलनामधेय ॥ १५ ॥
Text 16
श्रुत्वा हरिस्तमरणार्थिनमप्रमेय-
श्चक्रायुध: पतगराजभुजाधिरूढ: ।
चक्रेण नक्रवदनं विनिपाट्य तस्मा-
द्धस्ते प्रगृह्य भगवान् कृपयोज्जहार ॥ १६ ॥
Text 17
ज्यायान् गुणैरवरजोऽप्यदिते: सुतानां
लोकान् विचक्रम इमान् यदथाधियज्ञ: ।
क्ष्मां वामनेन जगृहे त्रिपदच्छलेन
याच्ञामृते पथि चरन् प्रभुभिर्न चाल्य: ॥ १७ ॥
Text 18
नार्थो बलेरयमुरुक्रमपादशौच-
माप: शिखाधृतवतो विबुधाधिपत्यम् ।
यो वै प्रतिश्रुतमृते न चिकीर्षदन्य-
दात्मानमङ्ग मनसा हरयेऽभिमेने ॥ १८ ॥
Text 19
तुभ्यं च नारद भृशं भगवान् विवृद्ध-
भावेन साधुपरितुष्ट उवाच योगम् ।
ज्ञानं च भागवतमात्मसतत्त्वदीपं
यद्वासुदेवशरणा विदुरञ्जसैव ॥ १९ ॥
Text 20
चक्रं च दिक्ष्वविहतं दशसु स्वतेजो
मन्वन्तरेषु मनुवंशधरो बिभर्ति ।
दुष्टेषु राजसु दमं व्यदधात् स्वकीर्तिं
सत्ये त्रिपृष्ठ उशतीं प्रथयंश्चरित्रै: ॥ २० ॥
Text 21
धन्वन्तरिश्च भगवान् स्वयमेव कीर्ति-
र्नाम्ना नृणां पुरुरुजां रुज आशु हन्ति ।
यज्ञे च भागममृतायुरवावरुन्ध
आयुष्यवेदमनुशास्त्यवतीर्य लोके ॥ २१ ॥
Text 22
क्षत्रं क्षयाय विधिनोपभृतं महात्मा
ब्रह्मध्रुगुज्झितपथं नरकार्तिलिप्सु ।
उद्धन्त्यसाववनिकण्टकमुग्रवीर्य-
स्त्रि:सप्तकृत्व उरुधारपरश्वधेन ॥ २२ ॥
Text 23
अस्मत्प्रसादसुमुख: कलया कलेश
इक्ष्वाकुवंश अवतीर्य गुरोर्निदेशे ।
तिष्ठन् वनं सदयितानुज आविवेश
यस्मिन् विरुध्य दशकन्धर आर्तिमार्च्छत् ॥ २३ ॥
Text 24
यस्मा अदादुदधिरूढभयाङ्गवेपो
मार्गं सपद्यरिपुरं हरवद् दिधक्षो: ।
दूरे सुहृन्मथितरोषसुशोणदृष्टया
तातप्यमानमकरोरगनक्रचक्र: ॥ २४ ॥
Text 25
वक्ष:स्थलस्पर्शरुग्नमहेन्द्रवाह-
दन्तैर्विडम्बितककुब्जुष ऊढहासम् ।
सद्योऽसुभि: सह विनेष्यति दारहर्तु-
र्विस्फूर्जितैर्धनुष उच्चरतोऽधिसैन्ये ॥ २५ ॥
Text 26
भूमे: सुरेतरवरूथविमर्दिताया:
क्लेशव्ययाय कलया सितकृष्णकेश: ।
जात: करिष्यति जनानुपलक्ष्यमार्ग:
कर्माणि चात्ममहिमोपनिबन्धनानि ॥ २६ ॥
Text 27
तोकेन जीवहरणं यदुलूकिकाया-
स्त्रैमासिकस्य च पदा शकटोऽपवृत्त: ।
यद् रिङ्गतान्तरगतेन दिविस्पृशोर्वा
उन्मूलनं त्वितरथार्जुनयोर्न भाव्यम् ॥ २७ ॥
Text 28
यद् वै व्रजे व्रजपशून् विषतोयपीतान्
पालांस्त्वजीवयदनुग्रहदृष्टिवृष्टया ।
तच्छुद्धयेऽतिविषवीर्यविलोलजिह्व-
मुच्चाटयिष्यदुरगं विहरन् ह्रदिन्याम् ॥ २८ ॥
Text 29
तत् कर्म दिव्यमिव यन्निशि नि:शयानं
दावाग्निना शुचिवने परिदह्यमाने ।
उन्नेष्यति व्रजमतोऽवसितान्तकालं
नेत्रे पिधाप्य सबलोऽनधिगम्यवीर्य: ॥ २९ ॥
Text 30
गृह्णीत यद् यदुपबन्धममुष्य माता
शुल्बं सुतस्य न तु तत् तदमुष्य माति ।
यज्जृम्भतोऽस्य वदने भुवनानि गोपी
संवीक्ष्य शङ्कितमना: प्रतिबोधितासीत् ॥ ३० ॥
Text 31
नन्दं च मोक्ष्यति भयाद् वरुणस्य पाशाद्
गोपान् बिलेषु पिहितान् मयसूनुना च ।
अह्न्यापृतं निशि शयानमतिश्रमेण
लोकं विकुण्ठमुपनेष्यति गोकुलं स्म ॥ ३१ ॥
Text 32
गोपैर्मखे प्रतिहते व्रजविप्लवाय
देवेऽभिवर्षति पशून् कृपया रिरक्षु: ।
धर्तोच्छिलीन्ध्रमिव सप्तदिनानि सप्त-
वर्षो महीध्रमनघैककरे सलीलम् ॥ ३२ ॥
Text 33
क्रीडन् वने निशि निशाकररश्मिगौर्यां
रासोन्मुख: कलपदायतमूर्च्छितेन ।
उद्दीपितस्मररुजां व्रजभृद्वधूनां
हर्तुर्हरिष्यति शिरो धनदानुगस्य ॥ ३३ ॥
Texts 34-35
ये च प्रलम्बखरदर्दुरकेश्यरिष्ट-
मल्लेभकंसयवना: कपिपौण्ड्रकाद्या: ।
अन्ये च शाल्वकुजबल्वलदन्तवक्र-
सप्तोक्षशम्बरविदूरथरुक्मिमुख्या: ॥ ३४ ॥
ये वा मृधे समितिशालिन आत्तचापा:
काम्बोजमत्स्यकुरुसृञ्जयकैकयाद्या: ।
यास्यन्त्यदर्शनमलं बलपार्थभीम-
व्याजाह्वयेन हरिणा निलयं तदीयम् ॥ ३५ ॥
Text 36
कालेन मीलितधियामवमृश्य नृणां
स्तोकायुषां स्वनिगमो बत दूरपार: ।
आविर्हितस्त्वनुयुगं स हि सत्यवत्यां
वेदद्रुमं विटपशो विभजिष्यति स्म ॥ ३६ ॥
Text 37
देवद्विषां निगमवर्त्मनि निष्ठितानां
पूर्भिर्मयेन विहिताभिरदृश्यतूर्भि: ।
लोकान् घ्नतां मतिविमोहमतिप्रलोभं
वेषं विधाय बहु भाष्यत औपधर्म्यम् ॥ ३७ ॥
Text 38
यर्ह्यालयेष्वपि सतां न हरे: कथा: स्यु:
पाषण्डिनो द्विजजना वृषला नृदेवा: ।
स्वाहा स्वधा वषडिति स्म गिरो न यत्र
शास्ता भविष्यति कलेर्भगवान् युगान्ते ॥ ३८ ॥
Text 39
सर्गे तपोऽहमृषयो नव ये प्रजेशा:
स्थानेऽथ धर्ममखमन्वमरावनीशा: ।
अन्ते त्वधर्महरमन्युवशासुराद्या
मायाविभूतय इमा: पुरुशक्तिभाज: ॥ ३९ ॥
Text 40
विष्णोर्नु वीर्यगणनां कतमोऽर्हतीह
य: पार्थिवान्यपि कविर्विममे रजांसि ।
चस्कम्भ य: स्वरहसास्खलता त्रिपृष्ठं
यस्मात् त्रिसाम्यसदनादुरुकम्पयानम् ॥ ४० ॥
Text 41
नान्तं विदाम्यहममी मुनयोऽग्रजास्ते
मायाबलस्य पुरुषस्य कुतोऽवरा ये ।
गायन् गुणान् दशशतानन आदिदेव:
शेषोऽधुनापि समवस्यति नास्य पारम् ॥ ४१ ॥
Text 42
येषां स एष भगवान् दययेदनन्त:
सर्वात्मनाश्रितपदो यदि निर्व्यलीकम् ।
ते दुस्तरामतितरन्ति च देवमायां
नैषां ममाहमिति धी: श्वशृगालभक्ष्ये ॥ ४२ ॥
Texts 43-45
वेदाहमङ्ग परमस्य हि योगमायां
यूयं भवश्च भगवानथ दैत्यवर्य: ।
पत्नी मनो: स च मनुश्च तदात्मजाश्च
प्राचीनबर्हिर्ऋभुरङ्ग उत ध्रुवश्च ॥ ४३ ॥
इक्ष्वाकुरैलमुचुकुन्दविदेहगाधि-
रघ्वम्बरीषसगरा गयनाहुषाद्या: ।
मान्धात्रलर्कशतधन्वनुरन्तिदेवा
देवव्रतो बलिरमूर्त्तरयो दिलीप: ॥ ४४ ॥
सौभर्युतङ्कशिबिदेवलपिप्पलाद-
सारस्वतोद्धवपराशरभूरिषेणा: ।
येऽन्ये विभीषणहनूमदुपेन्द्रदत्त-
पार्थार्ष्टिषेणविदुरश्रुतदेववर्या: ॥ ४५ ॥
Text 46
ते वै विदन्त्यतितरन्ति च देवमायां
स्त्रीशूद्रहूणशबरा अपि पापजीवा: ।
यद्यद्भुतक्रमपरायणशीलशिक्षा-
स्तिर्यग्जना अपि किमु श्रुतधारणा ये ॥ ४६ ॥
Text 47
शश्वत् प्रशान्तमभयं प्रतिबोधमात्रं
शुद्धं समं सदसत: परमात्मतत्त्वम् ।
शब्दो न यत्र पुरुकारकवान् क्रियार्थो
माया परैत्यभिमुखे च विलज्जमाना
तद् वै पदं भगवत: परमस्य पुंसो
ब्रह्मेति यद् विदुरजस्रसुखं विशोकम् ॥ ४७ ॥
Text 48
सध्रयङ् नियम्य यतयो यमकर्तहेतिं ।
जह्यु: स्वराडिव निपानखनित्रमिन्द्र: ॥ ४८ ॥
Text 49
स श्रेयसामपि विभुर्भगवान् यतोऽस्य
भावस्वभावविहितस्य सत: प्रसिद्धि: ।
देहे स्वधातुविगमेऽनुविशीर्यमाणे
व्योमेव तत्र पुरुषो न विशीर्यतेऽज: ॥ ४९ ॥
Text 50
सोऽयं तेऽभिहितस्तात भगवान् विश्वभावन: ।
समासेन हरेर्नान्यदन्यस्मात् सदसच्च यत् ॥ ५० ॥
Text 51
इदं भागवतं नाम यन्मे भगवतोदितम् ।
संग्रहोऽयं विभूतीनां त्वमेतद् विपुलीकुरु ॥ ५१ ॥
Text 52
यथा हरौ भगवति नृणां भक्तिर्भविष्यति ।
सर्वात्मन्यखिलाधारे इति सङ्कल्प्य वर्णय ॥ ५२ ॥
Text 53
मायां वर्णयतोऽमुष्य ईश्वरस्यानुमोदत: ।
शृण्वत: श्रद्धया नित्यं माययात्मा न मुह्यति ॥ ५३ ॥






