Srimad Bhagavatam | Canto 2 | Chapter 2 | Verses

Text 1 श्रीशुक उवाच एवं पुरा धारणयात्मयोनि- र्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् । तथा ससर्जेदममोघद‍ृष्टि- र्यथाप्ययात् प्राग् व्यवसायबुद्धि: ॥ १ ॥

0
52

The Lord in the Heart

Text 1

श्रीशुक उवाच
एवं पुरा धारणयात्मयोनि-
र्नष्टां स्मृतिं प्रत्यवरुध्य तुष्टात् ।
तथा ससर्जेदममोघद‍ृष्टि-
र्यथाप्ययात् प्राग् व्यवसायबुद्धि: ॥ १ ॥

Text 2

शाब्दस्य हि ब्रह्मण एष पन्था
यन्नामभिर्ध्यायति धीरपार्थै: ।
परिभ्रमंस्तत्र न विन्दतेऽर्थान्
मायामये वासनया शयान: ॥ २ ॥

Text 3

अत: कविर्नामसु यावदर्थ:
स्यादप्रमत्तो व्यवसायबुद्धि: ।
सिद्धेऽन्यथार्थे न यतेत तत्र
परिश्रमं तत्र समीक्षमाण: ॥ ३ ॥

Text 4

सत्यां क्षितौ किं कशिपो: प्रयासै-
र्बाहौ स्वसिद्धे ह्युपबर्हणै: किम् ।
सत्यञ्जलौ किं पुरुधान्नपात्र्या
दिग्वल्कलादौ सति किं दुकूलै: ॥ ४ ॥

Text 5

चीराणि किं पथि न सन्ति दिशन्ति भिक्षां
नैवाङ्‌घ्रिपा: परभृत: सरितोऽप्यशुष्यन् ।
रुद्धा गुहा: किमजितोऽवति नोपसन्नान्
कस्माद् भजन्ति कवयो धनदुर्मदान्धान् ॥ ५ ॥

Text 6

एवं स्वचित्ते स्वत एव सिद्ध
आत्मा प्रियोऽर्थो भगवाननन्त: ।
तं निर्वृतो नियतार्थो भजेत
संसारहेतूपरमश्च यत्र ॥ ६ ॥

Text 7

कस्तां त्वनाद‍ृत्य परानुचिन्ता-
मृते पशूनसतीं नाम कुर्यात् ।
पश्यञ्जनं पतितं वैतरण्यां
स्वकर्मजान् परितापाञ्जुषाणम् ॥ ७ ॥

Text 8

केचित् स्वदेहान्तर्हृदयावकाशे
प्रादेशमात्रं पुरुषं वसन्तम् ।
चतुर्भुजं कञ्जरथाङ्गशङ्ख-
गदाधरं धारणया स्मरन्ति ॥ ८ ॥

Text 9

प्रसन्नवक्त्रं नलिनायतेक्षणं
कदम्बकिञ्जल्कपिशङ्गवाससम् ।
लसन्महारत्नहिरण्मयाङ्गदं
स्फुरन्महारत्नकिरीटकुण्डलम् ॥ ९ ॥

Text 10

उन्निद्रहृत्पङ्कजकर्णिकालये
योगेश्वरास्थापितपादपल्लवम् ।
श्रीलक्षणं कौस्तुभरत्नकन्धर-
मम्‍लानलक्ष्म्या वनमालयाचितम् ॥ १० ॥

Text 11

विभूषितं मेखलयाङ्गुलीयकै-
र्महाधनैर्नूपुरकङ्कणादिभि: ।
स्निग्धामलाकुञ्चितनीलकुन्तलै-
र्विरोचमानाननहासपेशलम् ॥ ११ ॥

Text 12

अदीनलीलाहसितेक्षणोल्लसद्-
भ्रूभङ्गसंसूचितभूर्यनुग्रहम् ।
ईक्षेत चिन्तामयमेनमीश्वरं
यावन्मनो धारणयावतिष्ठते ॥ १२ ॥

Text 13

एकैकशोऽङ्गानि धियानुभावयेत्
पादादि यावद्धसितं गदाभृत: ।
जितं जितं स्थानमपोह्य धारयेत्
परं परं शुद्ध्यति धीर्यथा यथा ॥ १३ ॥

Text 14

यावन्न जायेत परावरेऽस्मिन्
विश्वेश्वरे द्रष्टरि भक्तियोग: ।
तावत् स्थवीय: पुरुषस्य रूपं
क्रियावसाने प्रयत: स्मरेत ॥ १४ ॥

Text 15

स्थिरं सुखं चासनमास्थितो यति-
र्यदा जिहासुरिममङ्ग लोकम् ।
काले च देशे च मनो न सज्जयेत्
प्राणान् नियच्छेन्मनसा जितासु: ॥ १५ ॥

Text 16

मन: स्वबुद्ध्यामलया नियम्य
क्षेत्रज्ञ एतां निनयेत् तमात्मनि ।
आत्मानमात्मन्यवरुध्य धीरो
लब्धोपशान्तिर्विरमेत कृत्यात् ॥ १६ ॥

Text 17

न यत्र कालोऽनिमिषां पर: प्रभु:
कुतो नु देवा जगतां य ईशिरे ।
न यत्र सत्त्वं न रजस्तमश्च
न वै विकारो न महान् प्रधानम् ॥ १७ ॥

Text 18

परं पदं वैष्णवमामनन्ति तद्
यन्नेति नेतीत्यतदुत्सिसृक्षव: ।
विसृज्य दौरात्म्यमनन्यसौहृदा
हृदोपगुह्यार्हपदं पदे पदे ॥ १८ ॥

Text 19

इत्थं मुनिस्तूपरमेद् व्यवस्थितो
विज्ञानद‍ृग्वीर्यसुरन्धिताशय: ।
स्वपार्ष्णिनापीड्य गुदं ततोऽनिलं
स्थानेषु षट्‍सून्नमयेज्जितक्लम: ॥ १९ ॥

Text 20

नाभ्यां स्थितं हृद्यधिरोप्य तस्मा-
दुदानगत्योरसि तं नयेन्मुनि: ।
ततोऽनुसन्धाय धिया मनस्वी
स्वतालुमूलं शनकैर्नयेत् ॥ २० ॥

Text 21

तस्माद् भ्रुवोरन्तरमुन्नयेत
निरुद्धसप्तायतनोऽनपेक्ष: ।
स्थित्वा मुहूर्तार्धमकुण्ठद‍ृष्टि-
र्निर्भिद्य मूर्धन् विसृजेत्परं गत: ॥ २१ ॥

Text 22

यदि प्रयास्यन् नृप पारमेष्ठ्यं
वैहायसानामुत यद् विहारम् ।
अष्टाधिपत्यं गुणसन्निवाये
सहैव गच्छेन्मनसेन्द्रियैश्च ॥ २२ ॥

Text 23

योगेश्वराणां गतिमाहुरन्त-
र्बहिस्त्रिलोक्या: पवनान्तरात्मनाम् ।
न कर्मभिस्तां गतिमाप्नुवन्ति
विद्यातपोयोगसमाधिभाजाम् ॥ २३ ॥

Text 24

वैश्वानरं याति विहायसा गत:
सुषुम्णया ब्रह्मपथेन शोचिषा ।
विधूतकल्कोऽथ हरेरुदस्तात्
प्रयाति चक्रं नृप शैशुमारम् ॥ २४ ॥

Text 25

तद् विश्वनाभिं त्वतिवर्त्य विष्णो-
रणीयसा विरजेनात्मनैक: ।
नमस्कृतं ब्रह्मविदामुपैति
कल्पायुषो यद् विबुधा रमन्ते ॥ २५ ॥

Text 26

अथो अनन्तस्य मुखानलेन
दन्दह्यमानं स निरीक्ष्य विश्वम् ।
निर्याति सिद्धेश्वरयुष्टधिष्ण्यं
यद् द्वैपरार्ध्यं तदु पारमेष्ठ्यम् ॥ २६ ॥

Text 27

न यत्र शोको न जरा न मृत्यु-
र्नार्तिर्न चोद्वेग ऋते कुतश्चित् ।
यच्चित्ततोऽद: कृपयानिदंविदां
दुरन्तदु:खप्रभवानुदर्शनात् ॥ २७ ॥

Text 28

ततो विशेषं प्रतिपद्य निर्भय-
स्तेनात्मनापोऽनलमूर्तिरत्वरन् ।
ज्योतिर्मयो वायुमुपेत्य काले
वाय्वात्मना खं बृहदात्मलिङ्गम् ॥ २८ ॥

Text 29

घ्राणेन गन्धं रसनेन वै रसं
रूपं च द‍ृष्टय‍ा श्वसनं त्वचैव ।
श्रोत्रेण चोपेत्य नभोगुणत्वं
प्राणेन चाकूतिमुपैति योगी ॥ २९ ॥

Text 30

स भूतसूक्ष्मेन्द्रियसंनिकर्षं
मनोमयं देवमयं विकार्यम् ।
संसाद्य गत्या सह तेन याति
विज्ञानतत्त्वं गुणसंनिरोधम् ॥ ३० ॥

Text 31

तेनात्मनात्मानमुपैति शान्त-
मानन्दमानन्दमयोऽवसाने ।
एतां गतिं भागवतीं गतो य:
स वै पुनर्नेह विषज्जतेऽङ्ग ॥ ३१ ॥

Text 32

एते सृती ते नृप वेदगीते
त्वयाभिपृष्टे च सनातने च ।
ये वै पुरा ब्रह्मण आह तुष्ट
आराधितो भगवान् वासुदेव: ॥ ३२ ॥

Text 33

न ह्यतोऽन्य: शिव: पन्था विशत: संसृताविह ।
वासुदेवे भगवति भक्तियोगो यतो भवेत् ॥ ३३ ॥

Text 34

भगवान् ब्रह्म कार्त्स्‍न्येन त्रिरन्वीक्ष्य मनीषया ।
तदध्यवस्यत् कूटस्थो रतिरात्मन् यतो भवेत् ॥ ३४ ॥

Text 35

भगवान् सर्वभूतेषु लक्षित: स्वात्मना हरि: ।
द‍ृश्यैर्बुद्ध्यादिभिर्द्रष्टा लक्षणैरनुमापकै: ॥ ३५ ॥

Text 36

तस्मात् सर्वात्मना राजन् हरि: सर्वत्र सर्वदा ।
श्रोतव्य: कीर्तितव्यश्च स्मर्तव्यो भगवान्नृणाम् ॥ ३६ ॥

Text 37

पिबन्ति ये भगवत आत्मन: सतां
कथामृतं श्रवणपुटेषु सम्भृतम् ।
पुनन्ति ते विषयविदूषिताशयं
व्रजन्ति तच्चरणसरोरुहान्तिकम् ॥ ३७ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here