Srimad Bhagavatam | Canto 2 | Chapter 1 | Verses

Text 1 श्रीशुक उवाच वरीयानेष ते प्रश्न: कृतो लोकहितं नृप । आत्मवित्सम्मत: पुंसां श्रोतव्यादिषु य: पर: ॥ १ ॥

0
43

The First Step in God Realization

Invocation

ॐ नमो भगवते वासुदेवाय ।

Text 1

श्रीशुक उवाच
वरीयानेष ते प्रश्न: कृतो लोकहितं
नृप ।
आत्मवित्सम्मत: पुंसां श्रोतव्यादिषु य: पर: ॥ १ ॥

Text 2

श्रोतव्यादीनि राजेन्द्र नृणां सन्ति
सहस्रश: ।
अपश्यतामात्मतत्त्वं गृहेषु गृहमेधिनाम् ॥ २ ॥

Text 3

निद्रया ह्रियते नक्तं व्यवायेन च वा वय: ।
दिवा चार्थेहया राजन् कुटुम्बभरणेन वा ॥ ३ ॥

Text 4

देहापत्यकलत्रादिष्वात्मसैन्येष्वसत्स्वपि ।
तेषां प्रमत्तो निधनं पश्यन्नपि न पश्यति ॥ ४ ॥

Text 5

तस्माद्भारत सर्वात्मा भगवानीश्वरो हरि: ।
श्रोतव्य: कीर्तितव्यश्च स्मर्तव्यश्चेच्छताभयम् ॥ ५ ॥

Text 6

एतावान् सांख्ययोगाभ्यां स्वधर्मपरिनिष्ठया ।
जन्मलाभ: पर: पुंसामन्ते नारायणस्मृति: ॥ ६ ॥

Text 7

प्रायेण मुनयो राजन्निवृत्ता विधिषेधत: ।
नैर्गुण्यस्था रमन्ते स्म गुणानुकथने हरे: ॥ ७ ॥

Text 8

इदं भागवतं नाम पुराणं ब्रह्मसम्मितम् ।
अधीतवान् द्वापरादौ पितुर्द्वैपायनादहम् ॥ ८ ॥

Text 9

परिनिष्ठितोऽपि नैर्गुण्य उत्तमश्लोकलीलया ।
गृहीतचेता राजर्षे आख्यानं यदधीतवान् ॥ ९ ॥

Text 10

तदहं तेऽभिधास्यामि महापौरुषिको भवान् ।
यस्य श्रद्दधतामाशु स्यान्मुकुन्दे मति: सती ॥ १० ॥

Text 11

एतन्निर्विद्यमानानामिच्छतामकुतोभयम् ।
योगिनां नृप निर्णीतं हरेर्नामानुकीर्तनम् ॥ ११ ॥

Text 12

किं प्रमत्तस्य बहुभि: परोक्षैर्हायनैरिह ।
वरं मुहूर्तं विदितं घटते श्रेयसे यत: ॥ १२ ॥

Text 13

खट्‍वाङ्गो नाम राजर्षिर्ज्ञात्वेयत्तामिहायुष: ।
मुहूर्तात्सर्वमुत्सृज्य गतवानभयं हरिम् ॥ १३ ॥

Text 14

तवाप्येतर्हि कौरव्य सप्ताहं जीवितावधि: ।
उपकल्पय तत्सर्वं तावद्यत्साम्परायिकम् ॥ १४ ॥

Text 15

अन्तकाले तु पुरुष आगते गतसाध्वस: ।
छिन्द्यादसङ्गशस्त्रेण स्पृहां देहेऽनु ये च तम् ॥ १५ ॥

Text 16

गृहात् प्रव्रजितो धीर: पुण्यतीर्थजलाप्लुत: ।
शुचौ विविक्त आसीनो विधिवत्कल्पितासने ॥ १६ ॥

Text 17

अभ्यसेन्मनसा शुद्धं त्रिवृद्ब्रह्माक्षरं परम् ।
मनो यच्छेज्जितश्वासो ब्रह्मबीजमविस्मरन् ॥ १७ ॥

Text 18

नियच्छेद्विषयेभ्योऽक्षान्मनसा बुद्धिसारथि: ।
मन: कर्मभिराक्षिप्तं शुभार्थे धारयेद्धिया ॥ १८ ॥

Text 19

तत्रैकावयवं ध्यायेदव्युच्छिन्नेन चेतसा ।
मनो निर्विषयं युक्त्वा तत: किञ्चन न स्मरेत् ।
पदं तत्परमं विष्णोर्मनो यत्र प्रसीदति ॥ १९ ॥

Text 20

रजस्तमोभ्यामाक्षिप्तं विमूढं मन आत्मन: ।
यच्छेद्धारणया धीरो हन्ति या तत्कृतं मलम् ॥ २० ॥

Text 21

यस्यां सन्धार्यमाणायां योगिनो भक्तिलक्षण: ।
आशु सम्पद्यते योग आश्रयं भद्रमीक्षत: ॥ २१ ॥

Text 22

राजोवाच
यथा सन्धार्यते ब्रह्मन् धारणा यत्र सम्मता ।
याद‍ृशी वा हरेदाशु पुरुषस्य मनोमलम् ॥ २२ ॥

Text 23

श्रीशुक उवाच
जितासनो जितश्वासो जितसङ्गो जितेन्द्रिय: ।
स्थूले भगवतो रूपे मन: सन्धारयेद्धिया ॥ २३ ॥

Text 24

विशेषस्तस्य देहोऽयं स्थविष्ठश्च स्थवीयसाम् ।
यत्रेदं व्यज्यते विश्वं भूतं भव्यं भवच्च सत् ॥ २४ ॥

Text 25

अण्डकोशे शरीरेऽस्मिन् सप्तावरणसंयुते ।
वैराज: पुरुषो योऽसौ भगवान् धारणाश्रय: ॥ २५ ॥

Text 26

पातालमेतस्य हि पादमूलं
पठन्ति पार्ष्णिप्रपदे रसातलम् ।
महातलं विश्वसृजोऽथ गुल्फौ
तलातलं वै पुरुषस्य जङ्घे ॥ २६ ॥

Text 27

द्वे जानुनी सुतलं विश्वमूर्ते-
रूरुद्वयं वितलं चातलं च ।
महीतलं तज्जघनं महीपते
नभस्तलं नाभिसरो गृणन्ति ॥ २७ ॥

Text 28

उर:स्थलं ज्योतिरनीकमस्य
ग्रीवा महर्वदनं वै जनोऽस्य ।
तपो वराटीं विदुरादिपुंस:
सत्यं तु शीर्षाणि सहस्रशीर्ष्ण: ॥ २८ ॥

Text 29

इन्द्रादयो बाहव आहुरुस्रा:
कर्णौ दिश:श्रोत्रममुष्य शब्द: ।
नासत्यदस्रौ परमस्य नासे
घ्राणोऽस्य गन्धो मुखमग्निरिद्ध: ॥ २९ ॥

Text 30

द्यौरक्षिणी चक्षुरभूत्पतङ्ग:
पक्ष्माणि विष्णोरहनी उभे च ।
तद्भ्रूविजृम्भ: परमेष्ठिधिष्ण्य-
मापोऽस्य तालु रस एव जिह्वा ॥ ३० ॥

Text 31

छन्दांस्यनन्तस्य शिरो गृणन्ति
दंष्ट्रा यम: स्‍नेहकला द्विजानि ।
हासो जनोन्मादकरी च माया
दुरन्तसर्गो यदपाङ्गमोक्ष: ॥ ३१ ॥

Text 32

व्रीडोत्तरौष्ठोऽधर एव लोभो
धर्म: स्तनोऽधर्मपथोऽस्य पृष्ठम् ।
कस्तस्य मेढ्रं वृषणौ च मित्रौ
कुक्षि: समुद्रा गिरयोऽस्थिसङ्घा: ॥ ३२ ॥

Text 33

नद्योऽस्य नाड्योऽथ तनूरुहाणि
महीरुहा विश्वतनोर्नृपेन्द्र ।
अनन्तवीर्य: श्वसितं मातरिश्वा
गतिर्वय: कर्म गुणप्रवाह: ॥ ३३ ॥

Text 34

ईशस्य केशान् विदुरम्बुवाहान्
वासस्तु सन्ध्यां कुरुवर्य भूम्न: ।
अव्यक्तमाहुर्हृदयं मनश्च
स चन्द्रमा: सर्वविकारकोश: ॥ ३४ ॥

Text 35

विज्ञानशक्तिं महिमामनन्ति
सर्वात्मनोऽन्त:करणं गिरित्रम् ।
अश्वाश्वतर्युष्ट्रगजा नखानि
सर्वे मृगा: पशव: श्रोणिदेशे ॥ ३५ ॥

Text 36

वयांसि तद्व्याकरणं विचित्रं
मनुर्मनीषा मनुजो निवास: ।
गन्धर्वविद्याधरचारणाप्सर:
स्वरस्मृतीरसुरानीकवीर्य: ॥ ३६ ॥

Text 37

ब्रह्माननं क्षत्रभुजो महात्मा
विडूरुरङ्‌घ्रिश्रितकृष्णवर्ण: ।
नानाभिधाभीज्यगणोपपन्नो
द्रव्यात्मक: कर्म वितानयोग: ॥ ३७ ॥

Text 38

इयानसावीश्वरविग्रहस्य
य: सन्निवेष: कथितो मया ते ।
सन्धार्यतेऽस्मिन् वपुषि स्थविष्ठे
मन: स्वबुद्ध्या न यतोऽस्ति किञ्चित् ॥ ३८ ॥

Text 39

स सर्वधीवृत्त्यनुभूतसर्व
आत्मा यथा स्वप्नजनेक्षितैक: ।
तं सत्यमानन्दनिधिं भजेत
नान्यत्र सज्जेद् यत आत्मपात: ॥ ३९ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here