The Passing Away of Bhīṣmadeva in the Presence of Lord Kṛṣṇa
Text 1
सूत उवाच
इति भीत: प्रजाद्रोहात्सर्वधर्मविवित्सया ।
ततो विनशनं प्रागाद् यत्र देवव्रतोऽपतत् ॥ १ ॥
Text 2
तदा ते भ्रातर: सर्वे सदश्वै: स्वर्णभूषितै: ।
अन्वगच्छन् रथैर्विप्रा व्यासधौम्यादयस्तथा ॥ २ ॥
Text 3
भगवानपि विप्रर्षे रथेन सधनञ्जय: ।
स तैर्व्यरोचत नृप: कुवेर इव गुह्यकै: ॥ ३ ॥
Text 4
दृष्ट्वा निपतितं भूमौ दिवश्च्युतमिवामरम् ।
प्रणेमु: पाण्डवा भीष्मं सानुगा: सह चक्रिणा ॥ ४ ॥
Text 5
तत्र ब्रह्मर्षय: सर्वे देवर्षयश्च सत्तम ।
राजर्षयश्च तत्रासन् द्रष्टुं भरतपुङ्गवम् ॥ ५ ॥
Texts 6-7
पर्वतो नारदो धौम्यो भगवान् बादरायण: ।
बृहदश्वो भरद्वाज: सशिष्यो रेणुकासुत: ॥ ६ ॥
वसिष्ठ इन्द्रप्रमदस्त्रितो गृत्समदोऽसित: ।
कक्षीवान् गौतमोऽत्रिश्च कौशिकोऽथ सुदर्शन: ॥ ७ ॥
Text 8
अन्ये च मुनयो ब्रह्मन् ब्रह्मरातादयोऽमला: ।
शिष्यैरुपेता आजग्मु: कश्यपाङ्गिरसादय: ॥ ८ ॥
Text 9
तान् समेतान् महाभागानुपलभ्य वसूत्तम: ।
पूजयामास धर्मज्ञो देशकालविभागवित् ॥ ९ ॥
Text 10
कृष्णं च तत्प्रभावज्ञ आसीनं जगदीश्वरम् ।
हृदिस्थं पूजयामास माययोपात्तविग्रहम् ॥ १० ॥
Text 11
पाण्डुपुत्रानुपासीनान् प्रश्रयप्रेमसङ्गतान् ।
अभ्याचष्टानुरागाश्रैरन्धीभूतेन चक्षुषा ॥ ११ ॥
Text 12
अहो कष्टमहोऽन्याय्यं यद्यूयं धर्मनन्दना: ।
जीवितुं नार्हथ क्लिष्टं विप्रधर्माच्युताश्रया: ॥ १२ ॥
Text 13
संस्थितेऽतिरथे पाण्डौ पृथा बालप्रजा वधू: ।
युष्मत्कृते बहून् क्लेशान् प्राप्ता तोकवती मुहु: ॥ १३ ॥
Text 14
सर्वं कालकृतं मन्ये भवतां च यदप्रियम् ।
सपालो यद्वशे लोको वायोरिव घनावलि: ॥ १४ ॥
Text 15
यत्र धर्मसुतो राजा गदापाणिर्वृकोदर: ।
कृष्णोऽस्त्री गाण्डिवं चापं सुहृत्कृष्णस्ततो विपत् ॥ १५ ॥
Text 16
न ह्यस्य कर्हिचिद्राजन् पुमान् वेद विधित्सितम् ।
यद्विजिज्ञासया युक्ता मुह्यन्ति कवयोऽपि हि ॥ १६ ॥
Text 17
तस्मादिदं दैवतन्त्रं व्यवस्य भरतर्षभ ।
तस्यानुविहितोऽनाथा नाथ पाहि प्रजा: प्रभो ॥ १७ ॥
Text 18
एष वै भगवान्साक्षादाद्यो नारायण: पुमान् ।
मोहयन्मायया लोकं गूढश्चरति वृष्णिषु ॥ १८ ॥
Text 19
अस्यानुभावं भगवान् वेद गुह्यतमं शिव: ।
देवर्षिर्नारद: साक्षाद्भगवान् कपिलो नृप ॥ १९ ॥
Text 20
यं मन्यसे मातुलेयं प्रियं मित्रं सुहृत्तमम् ।
अकरो: सचिवं दूतं सौहृदादथ सारथिम् ॥ २० ॥
Text 21
सर्वात्मन: समदृशो ह्यद्वयस्यानहङ्कृते: ।
तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥ २१ ॥
Text 22
तथाप्येकान्तभक्तेषु पश्य भूपानुकम्पितम् ।
यन्मेऽसूंस्त्यजत: साक्षात्कृष्णो दर्शनमागत: ॥ २२ ॥
Text 23
भक्त्यावेश्य मनो यस्मिन् वाचा यन्नाम कीर्तयन् ।
त्यजन् कलेवरं योगी मुच्यते कामकर्मभि: ॥ २३ ॥
Text 24
स देवदेवो भगवान् प्रतीक्षतां
कलेवरं यावदिदं हिनोम्यहम् ।
प्रसन्नहासारुणलोचनोल्लस-
न्मुखाम्बुजो ध्यानपथश्चतुर्भुज: ॥ २४ ॥
Text 25
सूत उवाच
युधिष्ठिरस्तदाकर्ण्य शयानं शरपञ्जरे ।
अपृच्छद्विविधान्धर्मानृषीणां चानुशृण्वताम् ॥ २५ ॥
Text 26
पुरुषस्वभावविहितान् यथावर्णं यथाश्रमम् ।
वैराग्यरागोपाधिभ्यामाम्नातोभयलक्षणान् ॥ २६ ॥
Text 27
दानधर्मान् राजधर्मान् मोक्षधर्मान् विभागश: ।
स्त्रीधर्मान् भगवद्धर्मान् समासव्यासयोगत: ॥ २७ ॥
Text 28
धर्मार्थकाममोक्षांश्च सहोपायान् यथा मुने ।
नानाख्यानेतिहासेषु वर्णयामास तत्त्ववित् ॥ २८ ॥
Text 29
धर्मं प्रवदतस्तस्य स काल: प्रत्युपस्थित: ।
यो योगिनश्छन्दमृत्योर्वाञ्छितस्तूत्तरायण: ॥ २९ ॥
Text 30
तदोपसंहृत्य गिर: सहस्रणी-
र्विमुक्तसङ्गं मन आदिपूरुषे ।
कृष्णे लसत्पीतपटे चतुर्भुजे
पुर:स्थितेऽमीलितदृग्व्यधारयत् ॥ ३० ॥
Text 31
विशुद्धया धारणया हताशुभ-
स्तदीक्षयैवाशु गतायुधश्रम: ।
निवृत्तसर्वेन्द्रियवृत्तिविभ्रम-
स्तुष्टाव जन्यं विसृजञ्जनार्दनम् ॥ ३१ ॥
Text 32
श्रीभीष्म उवाच
इति मतिरुपकल्पिता वितृष्णा
भगवति सात्वतपुङ्गवे विभूम्नि ।
स्वसुखमुपगते क्वचिद्विहर्तुं
प्रकृतिमुपेयुषि यद्भवप्रवाह: ॥ ३२ ॥
Text 33
त्रिभुवनकमनं तमालवर्णं
रविकरगौरवराम्बरं दधाने ।
वपुरलककुलावृताननाब्जं
विजयसखे रतिरस्तु मेऽनवद्या ॥ ३३ ॥
Text 34
युधि तुरगरजोविधूम्रविष्वक्-
कचलुलितश्रमवार्यलङ्कृतास्ये ।
मम निशितशरैर्विभिद्यमान-
त्वचि विलसत्कवचेऽस्तु कृष्ण आत्मा ॥ ३४ ॥
Text 35
सपदि सखिवचो निशम्य मध्ये
निजपरयोर्बलयो रथं निवेश्य ।
स्थितवति परसैनिकायुरक्ष्णा
हृतवति पार्थसखे रतिर्ममास्तु ॥ ३५ ॥
Text 36
व्यवहितपृतनामुखं निरीक्ष्य
स्वजनवधाद्विमुखस्य दोषबुद्ध्या ।
कुमतिमहरदात्मविद्यया य-
श्चरणरति: परमस्य तस्य मेऽस्तु ॥ ३६ ॥
Text 37
स्वनिगममपहाय मत्प्रतिज्ञा-
मृतमधिकर्तुमवप्लुतो रथस्थ: ।
धृतरथचरणोऽभ्ययाच्चलद्गु-
र्हरिरिव हन्तुमिभं गतोत्तरीय: ॥ ३७ ॥
Text 38
शितविशिखहतो विशीर्णदंश:
क्षतजपरिप्लुत आततायिनो मे ।
प्रसभमभिससार मद्वधार्थं
स भवतु मे भगवान् गतिर्मुकुन्द: ॥ ३८ ॥
Text 39
विजयरथकुटुम्ब आत्ततोत्रे
धृतहयरश्मिनि तच्छ्रियेक्षणीये ।
भगवति रतिरस्तु मे मुमूर्षो-
र्यमिह निरीक्ष्य हता गता: स्वरूपम् ॥ ३९ ॥
Text 40
ललितगतिविलासवल्गुहास-
प्रणयनिरीक्षणकल्पितोरुमाना: ।
कृतमनुकृतवत्य उन्मदान्धा:
प्रकृतिमगन् किल यस्य गोपवध्व: ॥ ४० ॥
Text 41
मुनिगणनृपवर्यसङ्कुलेऽन्त:
सदसि युधिष्ठिरराजसूय एषाम् ।
अर्हणमुपपेद ईक्षणीयो
मम दृशिगोचर एष आविरात्मा ॥ ४१ ॥
Text 42
तमिममहमजं शरीरभाजां
हृदि हृदि धिष्ठितमात्मकल्पितानाम् ।
प्रतिदृशमिव नैकधार्कमेकं
समधिगतोऽस्मि विधूतभेदमोह: ॥ ४२ ॥
Text 43
सूत उवाच
कृष्ण एवं भगवति मनोवाग्दृष्टिवृत्तिभि: ।
आत्मन्यात्मानमावेश्य सोऽन्त:श्वास उपारमत् ॥ ४३ ॥
Text 44
सम्पद्यमानमाज्ञाय भीष्मं ब्रह्मणि निष्कले ।
सर्वे बभूवुस्ते तूष्णीं वयांसीव दिनात्यये ॥ ४४ ॥
Text 45
तत्र दुन्दुभयो नेदुर्देवमानववादिता: ।
शशंसु: साधवो राज्ञां खात्पेतु: पुष्पवृष्टय: ॥ ४५ ॥
Text 46
तस्य निर्हरणादीनि सम्परेतस्य भार्गव ।
युधिष्ठिर: कारयित्वा मुहूर्तं दु:खितोऽभवत् ॥ ४६ ॥
Text 47
तुष्टुवुर्मुनयो हृष्टा: कृष्णं तद्गुह्यनामभि: ।
ततस्ते कृष्णहृदया: स्वाश्रमान् प्रययु: पुन: ॥ ४७ ॥
Text 48
ततो युधिष्ठिरो गत्वा सहकृष्णो गजाह्वयम् ।
पितरं सान्त्वयामास गान्धारीं च तपस्विनीम् ॥ ४८ ॥
Text 49
पित्रा चानुमतो राजा वासुदेवानुमोदित: ।
चकार राज्यं धर्मेण पितृपैतामहं विभु: ॥ ४९ ॥






