Srimad Bhagavatam | Canto 1 | Chapter 6 | Verses

Text 1 सूत उवाच एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च । भूय: पप्रच्छ तं ब्रह्मन् व्यास: सत्यवतीसुत: ॥ १ ॥

0
26

Conversation Between Nārada and Vyāsadeva

Text 1

सूत उवाच
एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च ।
भूय: पप्रच्छ तं ब्रह्मन् व्यास: सत्यवतीसुत: ॥ १ ॥

Text 2

व्यास उवाच
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ।
वर्तमानो वयस्याद्ये तत: किमकरोद्भ‍वान् ॥ २ ॥

Text 3

स्वायम्भुव कया वृत्त्या वर्तितं ते परं वय: ।
कथं चेदमुदस्राक्षी: काले प्राप्ते कलेवरम् ॥ ३ ॥

Text 4

प्राक्कल्पविषयामेतां स्मृतिं ते मुनिसत्तम ।
न ह्येष व्यवधात्काल एष सर्वनिराकृति: ॥ ४ ॥

Text 5

नारद उवाच
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम ।
वर्तमानो वयस्याद्ये तत एतदकारषम् ॥ ५ ॥

Text 6

एकात्मजा मे जननी योषिन्मूढा च किङ्करी ।
मय्यात्मजेऽनन्यगतौ चक्रे स्‍नेहानुबन्धनम् ॥ ६ ॥

Text 7

सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती ।
ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ ७ ॥

Text 8

अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया ।
दिग्देशकालाव्युत्पन्नो बालक: पञ्चहायन: ॥ ८ ॥

Text 9

एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि ।
सर्पोऽदशत्पदा स्पृष्ट: कृपणां कालचोदित: ॥ ९ ॥

Text 10

तदा तदहमीशस्य भक्तानां शमभीप्सत: ।
अनुग्रहं मन्यमान: प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥

Text 11

स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् ।
खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥

Text 12

चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान् ।
जलाशयाञ्छिवजलान्नलिनी: सुरसेविता: ।
चित्रस्वनै: पत्ररथैर्विभ्रमद्भ्रमरश्रिय: ॥ १२ ॥

Text 13

नलवेणुशरस्तन्बकुशकीचकगह्वरम् ।
एक एवातियातोऽहमद्राक्षं विपिनं महत् ।
घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १३ ॥

Text 14

परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षित: ।
स्‍नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रम: ॥ १४ ॥

Text 15

तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रित: ।
आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १५ ॥

Text 16

ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा ।
औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरि: ॥ १६ ॥

Text 17

प्रेमातिभरनिर्भिन्नपुलकाङ्गोऽतिनिर्वृत: ।
आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥ १७ ॥

Text 18

रूपं भगवतो यत्तन्मन:कान्तं शुचापहम् ।
अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव ॥ १८ ॥

Text 19

दिद‍ृक्षुस्तदहं भूय: प्रणिधाय मनो हृदि ।
वीक्षमाणोऽपि नापश्यमवितृप्त इवातुर: ॥ १९ ॥

Text 20

एवं यतन्तं विजने मामाहागोचरो गिराम् ।
गम्भीरश्लक्ष्णया वाचा शुच: प्रशमयन्निव ॥ २० ॥

Text 21

हन्तास्मिञ्जन्मनि भवान्मा मां द्रष्टुमिहार्हति ।
अविपक्‍वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २१ ॥

Text 22

सकृद् यद्दर्शितं रूपमेतत्कामाय तेऽनघ ।
मत्काम: शनकै: साधु सर्वान्मुञ्चति हृच्छयान् ॥ २२ ॥

Text 23

सत्सेवयादीर्घयापि जाता मयि द‍ृढा मति: ।
हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २३ ॥

Text 24

मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।
प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २४ ॥

Text 25

एतावदुक्त्वोपरराम तन्महद्
भूतं नभोलिङ्गमलिङ्गमीश्वरम् ।
अहं च तस्मै महतां महीयसे
शीर्ष्णावनामं विदधेऽनुकम्पित: ॥ २५ ॥

Text 26

नामान्यनन्तस्य हतत्रप: पठन्
गुह्यानि भद्राणि कृतानि च स्मरन् ।
गां पर्यटंस्तुष्टमना गतस्पृह:
कालं प्रतीक्षन् विमदो विमत्सर: ॥ २६ ॥

Text 27

एवं कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मन: ।
काल: प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २७ ॥

Text 28

प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
आरब्धकर्मनिर्वाणो न्यपतत् पाञ्चभौतिक: ॥ २८ ॥

Text 29

कल्पान्त इदमादाय शयानेऽम्भस्युदन्वत: ।
शिशयिषोरनुप्राणं विविशेऽन्तरहं विभो: ॥ २९ ॥

Text 30

सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षत: ।
मरीचिमिश्रा ऋषय: प्राणेभ्योऽहं च जज्ञिरे ॥ ३० ॥

Text 31

अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रत: ।
अनुग्रहान्महाविष्णोरविघातगति: क्‍वचित् ॥ ३१ ॥

Text 32

देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् ।
मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३२ ॥

Text 33

प्रगायत: स्ववीर्याणि तीर्थपाद: प्रियश्रवा: ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३३ ॥

Text 34

एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहु: ।
भवसिन्धुप्लवो द‍ृष्टो हरिचर्यानुवर्णनम् ॥ ३४ ॥

Text 35

यमादिभिर्योगपथै: कामलोभहतो मुहु: ।
मुकुन्दसेवया यद्वत्तथात्माद्धा न शाम्यति ॥ ३५ ॥

Text 36

सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ ।
जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३६ ॥

Text 37

सूत उवाच
एवं सम्भाष्य भगवान्नारदो वासवीसुतम् ।
आमन्‍त्र्य वीणां रणयन् ययौ याद‍ृच्छिको मुनि: ॥ ३७ ॥

Text 38

अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वन: ।
गायन्माद्यन्निदं तन्‍त्र्या रमयत्यातुरं जगत् ॥ ३८ ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here