Conversation Between Nārada and Vyāsadeva
Text 1
सूत उवाच
एवं निशम्य भगवान्देवर्षेर्जन्म कर्म च ।
भूय: पप्रच्छ तं ब्रह्मन् व्यास: सत्यवतीसुत: ॥ १ ॥
Text 2
व्यास उवाच
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिस्तव ।
वर्तमानो वयस्याद्ये तत: किमकरोद्भवान् ॥ २ ॥
Text 3
स्वायम्भुव कया वृत्त्या वर्तितं ते परं वय: ।
कथं चेदमुदस्राक्षी: काले प्राप्ते कलेवरम् ॥ ३ ॥
Text 4
प्राक्कल्पविषयामेतां स्मृतिं ते मुनिसत्तम ।
न ह्येष व्यवधात्काल एष सर्वनिराकृति: ॥ ४ ॥
Text 5
नारद उवाच
भिक्षुभिर्विप्रवसिते विज्ञानादेष्टृभिर्मम ।
वर्तमानो वयस्याद्ये तत एतदकारषम् ॥ ५ ॥
Text 6
एकात्मजा मे जननी योषिन्मूढा च किङ्करी ।
मय्यात्मजेऽनन्यगतौ चक्रे स्नेहानुबन्धनम् ॥ ६ ॥
Text 7
सास्वतन्त्रा न कल्पासीद्योगक्षेमं ममेच्छती ।
ईशस्य हि वशे लोको योषा दारुमयी यथा ॥ ७ ॥
Text 8
अहं च तद्ब्रह्मकुले ऊषिवांस्तदुपेक्षया ।
दिग्देशकालाव्युत्पन्नो बालक: पञ्चहायन: ॥ ८ ॥
Text 9
एकदा निर्गतां गेहाद्दुहन्तीं निशि गां पथि ।
सर्पोऽदशत्पदा स्पृष्ट: कृपणां कालचोदित: ॥ ९ ॥
Text 10
तदा तदहमीशस्य भक्तानां शमभीप्सत: ।
अनुग्रहं मन्यमान: प्रातिष्ठं दिशमुत्तराम् ॥ १० ॥
Text 11
स्फीताञ्जनपदांस्तत्र पुरग्रामव्रजाकरान् ।
खेटखर्वटवाटीश्च वनान्युपवनानि च ॥ ११ ॥
Text 12
चित्रधातुविचित्राद्रीनिभभग्नभुजद्रुमान् ।
जलाशयाञ्छिवजलान्नलिनी: सुरसेविता: ।
चित्रस्वनै: पत्ररथैर्विभ्रमद्भ्रमरश्रिय: ॥ १२ ॥
Text 13
नलवेणुशरस्तन्बकुशकीचकगह्वरम् ।
एक एवातियातोऽहमद्राक्षं विपिनं महत् ।
घोरं प्रतिभयाकारं व्यालोलूकशिवाजिरम् ॥ १३ ॥
Text 14
परिश्रान्तेन्द्रियात्माहं तृट्परीतो बुभुक्षित: ।
स्नात्वा पीत्वा ह्रदे नद्या उपस्पृष्टो गतश्रम: ॥ १४ ॥
Text 15
तस्मिन्निर्मनुजेऽरण्ये पिप्पलोपस्थ आश्रित: ।
आत्मनात्मानमात्मस्थं यथाश्रुतमचिन्तयम् ॥ १५ ॥
Text 16
ध्यायतश्चरणाम्भोजं भावनिर्जितचेतसा ।
औत्कण्ठ्याश्रुकलाक्षस्य हृद्यासीन्मे शनैर्हरि: ॥ १६ ॥
Text 17
प्रेमातिभरनिर्भिन्नपुलकाङ्गोऽतिनिर्वृत: ।
आनन्दसम्प्लवे लीनो नापश्यमुभयं मुने ॥ १७ ॥
Text 18
रूपं भगवतो यत्तन्मन:कान्तं शुचापहम् ।
अपश्यन् सहसोत्तस्थे वैक्लव्याद्दुर्मना इव ॥ १८ ॥
Text 19
दिदृक्षुस्तदहं भूय: प्रणिधाय मनो हृदि ।
वीक्षमाणोऽपि नापश्यमवितृप्त इवातुर: ॥ १९ ॥
Text 20
एवं यतन्तं विजने मामाहागोचरो गिराम् ।
गम्भीरश्लक्ष्णया वाचा शुच: प्रशमयन्निव ॥ २० ॥
Text 21
हन्तास्मिञ्जन्मनि भवान्मा मां द्रष्टुमिहार्हति ।
अविपक्वकषायाणां दुर्दर्शोऽहं कुयोगिनाम् ॥ २१ ॥
Text 22
सकृद् यद्दर्शितं रूपमेतत्कामाय तेऽनघ ।
मत्काम: शनकै: साधु सर्वान्मुञ्चति हृच्छयान् ॥ २२ ॥
Text 23
सत्सेवयादीर्घयापि जाता मयि दृढा मति: ।
हित्वावद्यमिमं लोकं गन्ता मज्जनतामसि ॥ २३ ॥
Text 24
मतिर्मयि निबद्धेयं न विपद्येत कर्हिचित् ।
प्रजासर्गनिरोधेऽपि स्मृतिश्च मदनुग्रहात् ॥ २४ ॥
Text 25
एतावदुक्त्वोपरराम तन्महद्
भूतं नभोलिङ्गमलिङ्गमीश्वरम् ।
अहं च तस्मै महतां महीयसे
शीर्ष्णावनामं विदधेऽनुकम्पित: ॥ २५ ॥
Text 26
नामान्यनन्तस्य हतत्रप: पठन्
गुह्यानि भद्राणि कृतानि च स्मरन् ।
गां पर्यटंस्तुष्टमना गतस्पृह:
कालं प्रतीक्षन् विमदो विमत्सर: ॥ २६ ॥
Text 27
एवं कृष्णमतेर्ब्रह्मन्नासक्तस्यामलात्मन: ।
काल: प्रादुरभूत्काले तडित्सौदामनी यथा ॥ २७ ॥
Text 28
प्रयुज्यमाने मयि तां शुद्धां भागवतीं तनुम् ।
आरब्धकर्मनिर्वाणो न्यपतत् पाञ्चभौतिक: ॥ २८ ॥
Text 29
कल्पान्त इदमादाय शयानेऽम्भस्युदन्वत: ।
शिशयिषोरनुप्राणं विविशेऽन्तरहं विभो: ॥ २९ ॥
Text 30
सहस्रयुगपर्यन्ते उत्थायेदं सिसृक्षत: ।
मरीचिमिश्रा ऋषय: प्राणेभ्योऽहं च जज्ञिरे ॥ ३० ॥
Text 31
अन्तर्बहिश्च लोकांस्त्रीन् पर्येम्यस्कन्दितव्रत: ।
अनुग्रहान्महाविष्णोरविघातगति: क्वचित् ॥ ३१ ॥
Text 32
देवदत्तामिमां वीणां स्वरब्रह्मविभूषिताम् ।
मूर्च्छयित्वा हरिकथां गायमानश्चराम्यहम् ॥ ३२ ॥
Text 33
प्रगायत: स्ववीर्याणि तीर्थपाद: प्रियश्रवा: ।
आहूत इव मे शीघ्रं दर्शनं याति चेतसि ॥ ३३ ॥
Text 34
एतद्ध्यातुरचित्तानां मात्रास्पर्शेच्छया मुहु: ।
भवसिन्धुप्लवो दृष्टो हरिचर्यानुवर्णनम् ॥ ३४ ॥
Text 35
यमादिभिर्योगपथै: कामलोभहतो मुहु: ।
मुकुन्दसेवया यद्वत्तथात्माद्धा न शाम्यति ॥ ३५ ॥
Text 36
सर्वं तदिदमाख्यातं यत्पृष्टोऽहं त्वयानघ ।
जन्मकर्मरहस्यं मे भवतश्चात्मतोषणम् ॥ ३६ ॥
Text 37
सूत उवाच
एवं सम्भाष्य भगवान्नारदो वासवीसुतम् ।
आमन्त्र्य वीणां रणयन् ययौ यादृच्छिको मुनि: ॥ ३७ ॥
Text 38
अहो देवर्षिर्धन्योऽयं यत्कीर्तिं शार्ङ्गधन्वन: ।
गायन्माद्यन्निदं तन्त्र्या रमयत्यातुरं जगत् ॥ ३८ ॥






