Srimad Bhagavatam | Canto 1 | Chapter 5 | Verses

Text 1 सूत उवाच अथ तं सुखमासीन उपासीनं बृहच्छ्रवा: । देवर्षि: प्राह विप्रर्षिं वीणापाणि: स्मयन्निव ॥ १ ॥

0
46

Nārada’s Instructions on Śrīmad-Bhāgavatam for Vyāsadeva

Text 1

सूत उवाच
अथ तं सुखमासीन उपासीनं बृहच्छ्रवा: ।
देवर्षि: प्राह विप्रर्षिं वीणापाणि: स्मयन्निव ॥ १ ॥

Text 2

नारद उवाच
पाराशर्य महाभाग भवत: कच्चिदात्मना ।
परितुष्यति शारीर आत्मा मानस एव वा ॥ २ ॥

Text 3

जिज्ञासितं सुसम्पन्नमपि ते महदद्भ‍ुतम् ।
कृतवान् भारतं यस्त्वं सर्वार्थपरिबृंहितम् ॥ ३ ॥

Text 4

जिज्ञासितमधीतं च ब्रह्म यत्तत्सनातनम् ।
तथापि शोचस्यात्मानमकृतार्थ इव प्रभो ॥ ४ ॥

Text 5

व्यास उवाच
अस्त्येव मे सर्वमिदं त्वयोक्तं
तथापि नात्मा परितुष्यते मे ।
तन्मूलमव्यक्तमगाधबोधं
पृच्छामहे त्वात्मभवात्मभूतम् ॥ ५ ॥

Text 6

स वै भवान् वेद समस्तगुह्य-
मुपासितो यत्पुरुष: पुराण: ।
परावरेशो मनसैव विश्वं
सृजत्यवत्यत्ति गुणैरसङ्ग: ॥ ६ ॥

Text 7

त्वं पर्यटन्नर्क इव त्रिलोकी-
मन्तश्चरो वायुरिवात्मसाक्षी ।
परावरे ब्रह्मणि धर्मतो व्रतै:
स्‍नातस्य मे न्यूनमलं विचक्ष्व ॥ ७ ॥

Text 8

श्रीनारद उवाच
भवतानुदितप्रायं यशो भगवतोऽमलम् ।
येनैवासौ न तुष्येत मन्ये तद्दर्शनं खिलम् ॥ ८ ॥

Text 9

यथा धर्मादयश्चार्था मुनिवर्यानुकीर्तिता: ।
न तथा वासुदेवस्य महिमा ह्यनुवर्णित: ॥ ९ ॥

Text 10

न यद्वचश्चित्रपदं हरेर्यशो
जगत्पवित्रं प्रगृणीत कर्हिचित् ।
तद्वायसं तीर्थमुशन्ति मानसा
न यत्र हंसा निरमन्त्युशिक्क्षया: ॥ १० ॥

Text 11

तद्वाग्विसर्गो जनताघविप्लवो
यस्मिन् प्रतिश्लोकमबद्धवत्यपि ।
नामान्यनन्तस्य यशोऽङ्कितानि यत्
श‍ृण्वन्ति गायन्ति गृणन्ति साधव: ॥ ११ ॥

Text 12

नैष्कर्म्यमप्यच्युतभाववर्जितं
न शोभते ज्ञानमलं निरञ्जनम् ।
कुत: पुन: शश्वदभद्रमीश्वरे
न चार्पितं कर्म यदप्यकारणम् ॥ १२ ॥

Text 13

अथो महाभाग भवानमोघद‍ृक्
शुचिश्रवा: सत्यरतो धृतव्रत: ।
उरुक्रमस्याखिलबन्धमुक्तये
समाधिनानुस्मर तद्विचेष्टितम् ॥ १३ ॥

Text 14

ततोऽन्यथा किञ्चन यद्विवक्षत:
पृथग्दृशस्तत्कृतरूपनामभि: ।
न कर्हिचित्क्वापि च दु:स्थिता मति-
र्लभेत वाताहतनौरिवास्पदम् ॥ १४ ॥

Text 15

जुगुप्सितं धर्मकृतेऽनुशासत:
स्वभावरक्तस्य महान् व्यतिक्रम: ।
यद्वाक्यतो धर्म इतीतर: स्थितो
न मन्यते तस्य निवारणं जन: ॥ १५ ॥

Text 16

विचक्षणोऽस्यार्हति वेदितुं विभो-
रनन्तपारस्य निवृत्तित: सुखम् ।
प्रवर्तमानस्य गुणैरनात्मन-
स्ततो भवान्दर्शय चेष्टितं विभो: ॥ १६ ॥

Text 17

त्यक्त्वा स्वधर्मं चरणाम्बुजं हरे-
र्भजन्नपक्‍वोऽथ पतेत्ततो यदि ।
यत्र क्‍व वाभद्रमभूदमुष्य किं
को वार्थ आप्तोऽभजतां स्वधर्मत: ॥ १७ ॥

Text 18

तस्यैव हेतो: प्रयतेत कोविदो
न लभ्यते यद्भ्रमतामुपर्यध: ।
तल्लभ्यते दु:खवदन्यत: सुखं
कालेन सर्वत्र गभीररंहसा ॥ १८ ॥

Text 19

न वै जनो जातु कथञ्चनाव्रजे-
न्मुकुन्दसेव्यन्यवदङ्ग संसृतिम् ।
स्मरन्मुकुन्दाङ्‌घ्र्युरपगूहनं पुन-
र्विहातुमिच्छेन्न रसग्रहो जन: ॥ १९ ॥

Text 20

इदं हि विश्वं भगवानिवेतरो
यतो जगत्स्थाननिरोधसम्भवा: ।
तद्धि स्वयं वेद भवांस्तथापि ते
प्रादेशमात्रं भवत: प्रदर्शितम् ॥ २० ॥

Text 21

त्वमात्मनात्मानमवेह्यमोघद‍ृक्
परस्य पुंस: परमात्मन: कलाम् ।
अजं प्रजातं जगत: शिवाय त-
न्महानुभावाभ्युदयोऽधिगण्यताम् ॥ २१ ॥

Text 22

इदं हि पुंसस्तपस: श्रुतस्य वा
स्विष्टस्य सूक्तस्य च बुद्धिदत्तयो: ।
अविच्युतोऽर्थ: कविभिर्निरूपितो
यदुत्तमश्लोकगुणानुवर्णनम् ॥ २२ ॥

Text 23

अहं पुरातीतभवेऽभवं मुने
दास्यास्तु कस्याश्चन वेदवादिनाम् ।
निरूपितो बालक एव योगिनां
शुश्रूषणे प्रावृषि निर्विविक्षताम् ॥ २३ ॥

Text 24

ते मय्यपेताखिलचापलेऽर्भके
दान्तेऽधृतक्रीडनकेऽनुवर्तिनि ।
चक्रु: कृपां यद्यपि तुल्यदर्शना:
शुश्रूषमाणे मुनयोऽल्पभाषिणि ॥ २४ ॥

Text 25

उच्छिष्टलेपाननुमोदितो द्विजै:
सकृत्स्म भुञ्जे तदपास्तकिल्बिष: ।
एवं प्रवृत्तस्य विशुद्धचेतस-
स्तद्धर्म एवात्मरुचि: प्रजायते ॥ २५ ॥

Text 26

तत्रान्वहं कृष्णकथा: प्रगायता-
मनुग्रहेणाश‍ृणवं मनोहरा: ।
ता: श्रद्धया मेऽनुपदं विश‍ृण्वत:
प्रियश्रवस्यङ्ग ममाभवद्रुचि: ॥ २६ ॥

Text 27

तस्मिंस्तदा लब्धरुचेर्महामते
प्रियश्रवस्यस्खलिता मतिर्मम ।
ययाहमेतत्सदसत्स्वमायया
पश्ये मयि ब्रह्मणि कल्पितं परे ॥ २७ ॥

Text 28

इत्थं शरत्प्रावृषिकावृतू हरे-
र्विश‍ृण्वतो मेऽनुसवं यशोऽमलम् ।
सङ्कीर्त्यमानं मुनिभिर्महात्मभि-
र्भक्ति: प्रवृत्तात्मरजस्तमोपहा ॥ २८ ॥

Text 29

तस्यैवं मेऽनुरक्तस्य प्रश्रितस्य हतैनस: ।
श्रद्दधानस्य बालस्य दान्तस्यानुचरस्य च ॥ २९ ॥

Text 30

ज्ञानं गुह्यतमं यत्तत्साक्षाद्भ‍गवतोदितम् । अन्ववोचन् गमिष्यन्त: कृपया दीनवत्सला: ॥ ३० ॥

Text 31

येनैवाहं भगवतो वासुदेवस्य वेधस: । मायानुभावमविदं येन गच्छन्ति तत्पदम् ॥ ३१ ॥

Text 32

एतत्संसूचितं ब्रह्मंस्तापत्रयचिकित्सितम् ।
यदीश्वरे भगवति कर्म ब्रह्मणि भावितम् ॥ ३२ ॥

Text 33

आमयो यश्च भूतानां जायते येन सुव्रत ।
तदेव ह्यामयं द्रव्यं न पुनाति चिकित्सितम् ॥ ३३ ॥

Text 34

एवं नृणां क्रियायोगा: सर्वे संसृतिहेतव: ।
त एवात्मविनाशाय कल्पन्ते कल्पिता: परे ॥ ३४ ॥

Text 35

यदत्र क्रियते कर्म भगवत्परितोषणम् ।
ज्ञानं यत्तदधीनं हि भक्तियोगसमन्वितम् ॥ ३५ ॥

Text 36

कुर्वाणा यत्र कर्माणि भगवच्छिक्षयासकृत् ।
गृणन्ति गुणनामानि कृष्णस्यानुस्मरन्ति च ॥ ३६ ॥

Text 37

ॐ नमो भगवते तुभ्यं वासुदेवाय धीमहि ।
प्रद्युम्नायानिरुद्धाय नम: सङ्कर्षणाय च ॥ ३७ ॥

Text 38

इति मूर्त्यभिधानेन मन्त्रमूर्तिममूर्तिकम् ।
यजते यज्ञपुरुषं स सम्यग्दर्शन: पुमान् ॥ ३८ ॥

Text 39

इमं स्वनिगमं ब्रह्मन्नवेत्य मदनुष्ठितम् ।
अदान्मे ज्ञानमैश्वर्यं स्वस्मिन् भावं च केशव: ॥ ३९ ॥

Text 40

त्वमप्यदभ्रश्रुत विश्रुतं विभो:
समाप्यते येन विदां बुभुत्सितम् ।
प्राख्याहि दु:खैर्मुहुरर्दितात्मनां
सङ्‍क्लेशनिर्वाणमुशन्ति नान्यथा ॥ ४० ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here