Srimad Bhagavatam | Canto 1 | Chapter 19 | Verses

Text 1 सूत उवाच महीपतिस्त्वथ तत्कर्म गर्ह्यं विचिन्तयन्नात्मकृतं सुदुर्मना: । अहो मया नीचमनार्यवत्कृतं निरागसि ब्रह्मणि गूढतेजसि ॥ १ ॥

0
35

The Appearance of Śukadeva Gosvāmī

Text 1

सूत उवाच
महीपतिस्त्वथ तत्कर्म गर्ह्यं
विचिन्तयन्नात्मकृतं सुदुर्मना: ।
अहो मया नीचमनार्यवत्कृतं
निरागसि ब्रह्मणि गूढतेजसि ॥ १ ॥

Text 2

ध्रुवं ततो मे कृतदेवहेलनाद्
दुरत्ययं व्यसनं नातिदीर्घात् ।
तदस्तु कामं ह्यघनिष्कृताय मे
यथा न कुर्यां पुनरेवमद्धा ॥ २ ॥

Text 3

अद्यैव राज्यं बलमृद्धकोशं
प्रकोपितब्रह्मकुलानलो मे ।
दहत्वभद्रस्य पुनर्न मेऽभूत्
पापीयसी धीर्द्विजदेवगोभ्य: ॥ ३ ॥

Text 4

स चिन्तयन्नित्थमथाश‍ृणोद् यथा
मुने: सुतोक्तो निऋर्तिस्तक्षकाख्य: ।
स साधु मेने न चिरेण तक्षका-
नलं प्रसक्तस्य विरक्तिकारणम् ॥ ४ ॥

Text 5

अथो विहायेमममुं च लोकं
विमर्शितौ हेयतया पुरस्तात् ।
कृष्णाङ्‌घ्रिसेवामधिमन्यमान
उपाविशत् प्रायममर्त्यनद्याम् ॥ ५ ॥

Text 6

या वै लसच्छ्रीतुलसीविमिश्र-
कृष्णाङ्‌घ्रिरेण्वभ्यधिकाम्बुनेत्री ।
पुनाति लोकानुभयत्र सेशान्
कस्तां न सेवेत मरिष्यमाण: ॥ ६ ॥

Text 7

इति व्यवच्छिद्य स पाण्डवेय:
प्रायोपवेशं प्रति विष्णुपद्याम् ।
दधौ मुकुन्दाङ्‌घ्रिमनन्यभावो
मुनिव्रतो मुक्तसमस्तसङ्ग: ॥ ७ ॥

Text 8

तत्रोपजग्मुर्भुवनं पुनाना
महानुभावा मुनय: सशिष्या: ।
प्रायेण
तीर्थाभिगमापदेशै:
स्वयं हि तीर्थानि पुनन्ति सन्त: ॥ ८ ॥

Texts 9-10

अत्रिर्वसिष्ठश्‍च्यवन: शरद्वा-
नरिष्टनेमिर्भृगुरङ्गिराश्च ।
पराशरो गाधिसुतोऽथ राम
उतथ्य इन्द्रप्रमदेध्मवाहौ ॥ ९ ॥
मेधातिथिर्देवल आर्ष्टिषेणो
भारद्वाजो गौतम: पिप्पलाद: ।
मैत्रेय और्व: कवष: कुम्भयोनि-
र्द्वैपायनो भगवान्नारदश्च ॥ १० ॥

Text 11

अन्ये च देवर्षिब्रह्मर्षिवर्या
राजर्षिवर्या अरुणादयश्च ।
नानार्षेयप्रवरान् समेता-
नभ्यर्च्य राजा शिरसा ववन्दे ॥ ११ ॥

Text 12

सुखोपविष्टेष्वथ तेषु भूय:
कृतप्रणाम: स्वचिकीर्षितं यत् ।
विज्ञापयामास
विविक्तचेता
उपस्थितोऽग्रेऽभिगृहीतपाणि: ॥ १२ ॥

Text 13

राजोवाच

Text 14

तस्यैव मेऽघस्य परावरेशो
व्यासक्तचित्तस्य गृहेष्वभीक्ष्णम् ।
निर्वेदमूलो द्विजशापरूपो
यत्र प्रसक्तो भयमाशु धत्ते ॥ १४ ॥

Text 15

तं मोपयातं प्रतियन्तु विप्रा
गङ्गा च देवी धृतचित्तमीशे ।
द्विजोपसृष्ट: कुहकस्तक्षको वा
दशत्वलं गायत विष्णुगाथा: ॥ १५ ॥

Text 16

पुनश्च भूयाद्भगवत्यनन्ते
रति: प्रसङ्गश्च तदाश्रयेषु ।
महत्सु यां यामुपयामि सृष्टिं
मैत्र्यस्तु सर्वत्र नमो द्विजेभ्य: ॥ १६ ॥

Text 17

इति स्म राजाध्यवसाययुक्त:
प्राचीनमूलेषु कुशेषु धीर: ।
उदङ्‍मुखो
दक्षिणकूल आस्ते
समुद्रपत्‍न्‍या: स्वसुतन्यस्तभार: ॥ १७ ॥

Text 18

एवं च तस्मिन्नरदेवदेवे
प्रायोपविष्टे दिवि देवसङ्घा: ।
प्रशस्य
भूमौ व्यकिरन् प्रसूनै-
र्मुदा मुहुर्दुन्दुभयश्च नेदु: ॥ १८ ॥

Text 19

महर्षयो वै समुपागता ये
प्रशस्य साध्वित्यनुमोदमाना: ।
ऊचु: प्रजानुग्रहशीलसारा
यदुत्तमश्लोकगुणाभिरूपम् ॥ १९ ॥

Text 20

न वा इदं राजर्षिवर्य चित्रं
भवत्सु कृष्णं समनुव्रतेषु ।
येऽध्यासनं राजकिरीटजुष्टं
सद्यो जहुर्भगवत्पार्श्वकामा: ॥ २० ॥

Text 21

सर्वे वयं तावदिहास्महेऽथ
कलेवरं यावदसौ विहाय ।
लोकं परं विरजस्कं विशोकं
यास्यत्ययं भागवतप्रधान: ॥ २१ ॥

Text 22

आश्रुत्य तद‍ृषिगणवच: परीक्षित्
समं मधुच्युद् गुरु चाव्यलीकम् ।
आभाषतैनानभिनन्द्य युक्तान्
शुश्रूषमाणश्चरितानि विष्णो: ॥ २२ ॥

Text 23

समागता: सर्वत एव सर्वे
वेदा यथा मूर्तिधरास्त्रिपृष्ठे ।
नेहाथ नामुत्र च कश्चनार्थ
ऋते परानुग्रहमात्मशीलम् ॥ २३ ॥

Text 24

ततश्च व: पृच्छ्‍यमिमं विपृच्छे
विश्रभ्य विप्रा इति कृत्यतायाम् ।
सर्वात्मना म्रियमाणैश्च कृत्यं
शुद्धं च तत्रामृशताभियुक्ता: ॥ २४ ॥

Text 25

तत्राभवद्भगवान् व्यासपुत्रो
यद‍ृच्छया गामटमानोऽनपेक्ष: ।
अलक्ष्यलिङ्गो निजलाभतुष्टो
वृतश्च बालैरवधूतवेष: ॥ २५ ॥

Text 26

तं द्व‌्यष्टवर्षं
सुकुमारपाद-
करोरुबाह्वंसकपोलगात्रम् ।
चार्वायताक्षोन्नसतुल्यकर्ण-
सुभ्र्वाननं
कम्बुसुजातकण्ठम् ॥ २६ ॥

Text 27

निगूढजत्रुं पृथुतुङ्गवक्षस-
मावर्तनाभिं वलिवल्गूदरं च ।
दिगम्बरं वक्त्रविकीर्णकेशं
प्रलम्बबाहुं स्वमरोत्तमाभम् ॥ २७ ॥

Text 28

श्यामं सदापीव्यवयोऽङ्गलक्ष्म्या
स्त्रीणां मनोज्ञं रुचिरस्मितेन ।
प्रत्युत्थितास्ते मुनय: स्वासनेभ्य-
स्तल्लक्षणज्ञा अपि गूढवर्चसम् ॥ २८ ॥

Text 29

स विष्णुरातोऽतिथय आगताय
तस्मै सपर्यां शिरसाजहार ।
ततो निवृत्ता ह्यबुधा: स्त्रियोऽर्भका
महासने सोपविवेश पूजित: ॥ २९ ॥

Text 30

स संवृतस्तत्र महान् महीयसां
ब्रह्मर्षिराजर्षिदेवर्षिसङ्घै: ।
व्यरोचतालं भगवान् यथेन्दु-
र्ग्रहर्क्षतारानिकरै: परीत: ॥ ३० ॥

Text 31

प्रशान्तमासीनमकुण्ठमेधसं
मुनिं नृपो भागवतोऽभ्युपेत्य ।
प्रणम्य मूर्ध्नावहित: कृताञ्जलि-
र्नत्वा गिरा सूनृतयान्वपृच्छत् ॥ ३१ ॥

Text 32

परीक्षिदुवाच
अहो अद्य वयं ब्रह्मन् सत्सेव्या: क्षत्रबन्धव: ।
कृपयातिथिरूपेण भवद्भ‍िस्तीर्थका: कृता: ॥ ३२ ॥

Text 33

येषां संस्मरणात्पुंसां सद्य: शुद्ध्यन्ति वै गृहा: ।
किं पुनर्दर्शनस्पर्शपादशौचासनादिभि: ॥ ३३ ॥

Text 34

सान्निध्यात्ते महायोगिन्पातकानि महान्त्यपि ।
सद्यो नश्यन्ति वै पुंसां विष्णोरिव सुरेतरा: ॥ ३४ ॥

Text 35

अपि मे भगवान् प्रीत: कृष्ण: पाण्डुसुतप्रिय: ।
पैतृष्वसेयप्रीत्यर्थं तद्गोत्रस्यात्तबान्धव: ॥ ३५ ॥

Text 36

अन्यथा तेऽव्यक्तगतेर्दर्शनं न: कथं नृणाम् ।
नितरां म्रियमाणानां संसिद्धस्य वनीयस: ॥ ३६ ॥

Text 37

अत: पृच्छामि संसिद्धिं योगिनां परमं गुरुम् ।
पुरुषस्येह यत्कार्यं म्रियमाणस्य सर्वथा ॥ ३७ ॥

Text 38

यच्छ्रोतव्यमथो जप्यं यत्कर्तव्यं नृभि: प्रभो ।
स्मर्तव्यं भजनीयं वा ब्रूहि यद्वा विपर्ययम् ॥ ३८ ॥

Text 39

नूनं भगवतो ब्रह्मन् गृहेषु गृहमेधिनाम् ।
न लक्ष्यते ह्यवस्थानमपि गोदोहनं क्‍वचित् ॥ ३९ ॥

Text 40

सूत उवाच
एवमाभाषित: पृष्ट: स राज्ञा श्लक्ष्णया गिरा ।
प्रत्यभाषत धर्मज्ञो भगवान् बादरायणि: ॥ ४० ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here