Srimad Bhagavatam | Canto 1 | Chapter 18 | Verses

Text 1 सूत उवाच यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृत: । अनुग्रहाद् भगवत: कृष्णस्याद्भुतकर्मण: ॥ १ ॥

0
53

Mahārāja Parīkṣit Cursed by a Brāhmaṇa Boy

Text 1

सूत उवाच
यो वै द्रौण्यस्त्रविप्लुष्टो न मातुरुदरे मृत: ।
अनुग्रहाद् भगवत:
कृष्णस्याद्भुतकर्मण: ॥ १ ॥

Text 2

ब्रह्मकोपोत्थिताद् यस्तु तक्षकात्प्राणविप्लवात् ।

सम्मुमोहोरुभयाद् भगवत्यर्पिताशय: ॥ २ ॥

Text 3

उत्सृज्य सर्वत: सङ्गं विज्ञाताजितसंस्थिति: ।
वैयासकेर्जहौ शिष्यो गङ्गायां स्वं कलेवरम् ॥ ३ ॥

Text 4

नोत्तमश्लोकवार्तानां जुषतां तत्कथामृतम् ।
स्यात्सम्भ्रमोऽन्तकालेऽपि स्मरतां तत्पदाम्बुजम् ॥ ४ ॥

Text 5

तावत्कलिर्न प्रभवेत् प्रविष्टोऽपीह सर्वत: ।
यावदीशो महानुर्व्यामाभिमन्यव
एकराट् ॥ ५ ॥

Text 6

यस्मिन्नहनि यर्ह्येव भगवानुत्ससर्ज गाम् ।
तदैवेहानुवृत्तोऽसावधर्मप्रभव:
कलि: ॥ ६ ॥

Text 7

नानुद्वेष्टि कलिं सम्राट् सारङ्ग इव सारभुक् ।
कुशलान्याशु सिद्ध्यन्ति नेतराणि कृतानि यत् ॥ ७ ॥

Text 8

किं नु बालेषु शूरेण कलिना धीरभीरुणा ।
अप्रमत्त: प्रमत्तेषु यो वृको नृषु वर्तते ॥ ८ ॥

Text 9

उपवर्णितमेतद्व: पुण्यं पारीक्षितं मया ।
वासुदेवकथोपेतमाख्यानं
यदपृच्छत ॥ ९ ॥

Text 10

या या: कथा भगवत: कथनीयोरुकर्मण: ।
गुणकर्माश्रया: पुम्भि: संसेव्यास्ता
बुभूषुभि: ॥ १० ॥

Text 11

ऋषय ऊचु:
सूत जीव समा: सौम्य शाश्वतीर्विशदं यश: ।
यस्त्वं शंससि कृष्णस्य मर्त्यानाममृतं हि न: ॥ ११ ॥

Text 12

कर्मण्यस्मिन्ननाश्वासे धूमधूम्रात्मनां भवान् ।
आपाययति गोविन्दपादपद्मासवं मधु ॥ १२ ॥

Text 13

तुलयाम लवेनापि न स्वर्गं नापुनर्भवम् ।
भगवत्सङ्गिसङ्गस्य मर्त्यानां किमुताशिष: ॥ १३ ॥

Text 14

को नाम तृप्येद् रसवित्कथायां
महत्तमैकान्तपरायणस्य ।
नान्तं गुणानामगुणस्य जग्मु-
र्योगेश्वरा ये भवपाद्ममुख्या: ॥ १४ ॥

Text 15

तन्नो भवान् वै भगवत्प्रधानो
महत्तमैकान्तपरायणस्य ।
हरेरुदारं चरितं विशुद्धं
शुश्रूषतां नो वितनोतु विद्वन् ॥ १५ ॥

Text 16

स वै महाभागवत: परीक्षिद्
येनापवर्गाख्यमदभ्रबुद्धि: ।
ज्ञानेन वैयासकिशब्दितेन
भेजे खगेन्द्रध्वजपादमूलम् ॥ १६ ॥

Text 17

तन्न: परं पुण्यमसंवृतार्थ-
माख्यानमत्यद्भुतयोगनिष्ठम् ।
आख्याह्यनन्ताचरितोपपन्नं
पारीक्षितं भागवताभिरामम् ॥ १७ ॥

Text 18

सूत उवाच
अहो वयं जन्मभृतोऽद्य हास्म
वृद्धानुवृत्त्यापि विलोमजाता: ।
दौष्कुल्यमाधिं विधुनोति शीघ्रं
महत्तमानामभिधानयोग: ॥ १८ ॥

Text 19

कुत: पुनर्गृणतो नाम तस्य
महत्तमैकान्तपरायणस्य ।
योऽनन्तशक्तिर्भगवाननन्तो
महद्गुणत्वाद् यमनन्तमाहु: ॥ १९ ॥

Text 20

एतावतालं ननु सूचितेन
गुणैरसाम्यानतिशायनस्य ।
हित्वेतरान् प्रार्थयतो विभूति-
र्यस्याङ्‌घ्रिरेणुं जुषतेऽनभीप्सो: ॥ २० ॥

Text 21

अथापि यत्पादनखावसृष्टं
जगद्विरिञ्चोपहृतार्हणाम्भ: ।
सेशं पुनात्यन्यतमो मुकुन्दात्
को नाम लोके भगवत्पदार्थ: ॥ २१ ॥

Text 22

यत्रानुरक्ता: सहसैव धीरा
व्यपोह्य देहादिषु सङ्गमूढम् ।
व्रजन्ति तत्पारमहंस्यमन्त्यं
यस्मिन्नहिंसोपशम: स्वधर्म: ॥ २२ ॥

Text 23

अहं हि पृष्टोऽर्यमणो भवद्भ‍ि-
राचक्ष आत्मावगमोऽत्र यावान् ।
नभ: पतन्त्यात्मसमं पतत्‍त्रिण-
स्तथा समं विष्णुगतिं विपश्चित: ॥ २३ ॥

Texts 24-25

एकदा धनुरुद्यम्य विचरन् मृगयां वने ।
मृगाननुगत: श्रान्त: क्षुधितस्तृषितो भृशम् ॥ २४ ॥
जलाशयमचक्षाण: प्रविवेश तमाश्रमम् ।
ददर्श मुनिमासीनं शान्तं मीलितलोचनम् ॥ २५ ॥

Text 26

प्रतिरुद्धेन्द्रियप्राणमनोबुद्धिमुपारतम् ।
स्थानत्रयात्परं प्राप्तं ब्रह्मभूतमविक्रियम् ॥ २६ ॥

Text 27

विप्रकीर्णजटाच्छन्नं रौरवेणाजिनेन च ।
विशुष्यत्तालुरुदकं तथाभूतमयाचत ॥ २७ ॥

Text 28

अलब्धतृणभूम्यादिरसम्प्राप्तार्घ्यसूनृत: ।
अवज्ञातमिवात्मानं मन्यमानश्चुकोप ह ॥ २८ ॥

Text 29

अभूतपूर्व: सहसा क्षुत्तृड्भ्यामर्दितात्मन: ।
ब्राह्मणं प्रत्यभूद् ब्रह्मन् मत्सरो मन्युरेव च ॥ २९ ॥

Text 30

स तु ब्रह्मऋषेरंसे गतासुमुरगं रुषा ।
विनिर्गच्छन्धनुष्कोट्या निधाय
पुरमागत: ॥ ३० ॥

Text 31

एष किं निभृताशेषकरणो मीलितेक्षण: ।
मृषासमाधिराहोस्वित्किं नु
स्यात्क्षत्रबन्धुभि: ॥ ३१ ॥

Text 32

तस्य पुत्रोऽतितेजस्वी विहरन् बालकोऽर्भकै: ।
राज्ञाघं प्रापितं तातं श्रुत्वा तत्रेदमब्रवीत् ॥ ३२ ॥

Text 33

अहो अधर्म: पालानां पीव्‍नां बलिभुजामिव ।
स्वामिन्यघं यद् दासानां द्वारपानां शुनामिव ॥ ३३ ॥

Text 34

ब्राह्मणै: क्षत्रबन्धुर्हि गृहपालो निरूपित: ।
स कथं तद्गृहे द्वा:स्थ: सभाण्डं भोक्तुमर्हति ॥ ३४ ॥

Text 35

कृष्णे गते भगवति शास्तर्युत्पथगामिनाम् ।
तद्भ‍िन्नसेतूनद्याहं शास्मि पश्यत मे बलम् ॥ ३५ ॥

Text 36

इत्युक्त्वा रोषताम्राक्षो वयस्यानृषिबालक: ।
कौशिक्याप उपस्पृश्य वाग्वज्रं विससर्ज ह ॥ ३६ ॥

Text 37

इति लङ्घितमर्यादं तक्षक: सप्तमेऽहनि ।
दङ्‍क्ष्यति स्म कुलाङ्गारं चोदितो मे ततद्रुहम् ॥ ३७ ॥

Text 38

ततोऽभ्येत्याश्रमं बालो गले सर्पकलेवरम् ।
पितरं वीक्ष्य दु:खार्तो मुक्तकण्ठो रुरोद ह ॥ ३८ ॥

Text 39

स वा आङ्गिरसो ब्रह्मन् श्रुत्वा सुतविलापनम् ।
उन्मील्य शनकैर्नेत्रे द‍ृष्ट्वा
चांसे मृतोरगम् ॥ ३९ ॥

Text 40

विसृज्य तं च पप्रच्छ वत्स कस्माद्धि रोदिषि ।
केन वा तेऽपकृतमित्युक्त: स
न्यवेदयत् ॥ ४० ॥

Text 41

निशम्य शप्तमतदर्हं नरेन्द्रं
स ब्राह्मणो नात्मजमभ्यनन्दत् ।
अहो बतांहो महदद्य ते कृत-
मल्पीयसि द्रोह उरुर्दमो धृत: ॥ ४१ ॥

Text 42

न वै नृभिर्नरदेवं पराख्यं
सम्मातुमर्हस्यविपक्‍वबुद्धे ।
यत्तेजसा दुर्विषहेण गुप्ता
विन्दन्ति भद्राण्यकुतोभया: प्रजा: ॥ ४२ ॥

Text 43

अलक्ष्यमाणे नरदेवनाम्नि
रथाङ्गपाणावयमङ्ग लोक: ।
तदा हि चौरप्रचुरो विनङ्‍क्ष्य-
त्यरक्ष्यमाणोऽविवरूथवत् क्षणात् ॥ ४३ ॥

Text 44

तदद्य न: पापमुपैत्यनन्वयं
यन्नष्टनाथस्य वसोर्विलुम्पकात् ।
परस्परं घ्नन्ति शपन्ति वृञ्जते
पशून् स्त्रियोऽर्थान् पुरुदस्यवो जना: ॥ ४४ ॥

Text 45

तदार्यधर्म: प्रविलीयते नृणां
वर्णाश्रमाचारयुतस्त्रयीमय: ।
ततोऽर्थकामाभिनिवेशितात्मनां
शुनां कपीनामिव वर्णसङ्कर: ॥ ४५ ॥

Text 46

धर्मपालो नरपति: स तु सम्राड् बृहच्छ्रवा: ।
साक्षान्महाभागवतो राजर्षिर्हयमेधयाट् ।
क्षुत्तृट्‍श्रमयुतो दीनो नैवास्मच्छापमर्हति ॥ ४६ ॥

Text 47

अपापेषु स्वभृत्येषु बालेनापक्‍वबुद्धिना ।
पापं कृतं तद्भगवान् सर्वात्मा क्षन्तुमर्हति ॥ ४७ ॥

Text 48

तिरस्कृता विप्रलब्धा: शप्ता: क्षिप्ता हता अपि ।
नास्य तत् प्रतिकुर्वन्ति तद्भक्ता: प्रभवोऽपि हि ॥ ४८ ॥

Text 49

इति पुत्रकृताघेन सोऽनुतप्तो महामुनि: ।
स्वयं विप्रकृतो राज्ञा नैवाघं तदचिन्तयत् ॥ ४९ ॥

Text 50

प्रायश: साधवो लोके परैर्द्वन्द्वेषु योजिता: ।
न व्यथन्ति न हृष्यन्ति यत आत्माऽगुणाश्रय: ॥ ५० ॥

Deepen your Bhakti-yoga practice, harmonize relationships, and receive guided coaching — all at Vedavarsity.com

Vedavarsity

LEAVE A REPLY

Please enter your comment!
Please enter your name here